पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे संभीताः कुरुत मा प्रवेशनम् ॥ १८ ॥ इति श्रीमदांये मौद्गल्ये गणेशाष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥ ७. संकष्टनाशनगणेशस्तोत्रम् | श्रीगणेशाय नमः । नारद उवाच | प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् | भक्त्या व्यासः स्मरेन्नित्यमायुः का- मार्थसिद्धये ॥ १ ॥ प्रथमं वक्रतुंडं च एकदंतं द्वितीय- कम् । तृतीयं कृष्णपिङ्गाक्षं गजवक्रं चतुर्थकम् ॥२॥ लं- बोदरं पंचमं च षष्ठं विकटमेव च । सप्तमं विघ्नराजं च धूम्रवर्ण तथाष्टमम् ॥ ३ ॥ नवमं भालचंद्रं च दशमं तु विनायकम् | एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४ ॥ द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः । न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥ ५ ॥ विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते पु त्रान्मोक्षार्थी लभते गतिम् ॥ ६ ॥ जपेद्गणपतिस्तोत्रं षड्‌ड्भिर्मासैः फलं लभेत् । संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥ अष्टाभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः सम- र्पयेत् । तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ ८ ॥ इति श्रीनारदपुराणे संकष्टनाशनं नाम गणेशस्तोत्रं संपूर्णम् ॥ ८. गणेशाष्टकम् | श्रीगणेशाय नमः ॥ सर्वे ऊचुः । यतोऽनंतशक्तेरनंताश्च जीवा यतो निर्गुणादप्रमेया गुणास्ते । यतो भाति सर्वे