पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकीर्णस्तोत्राणि | ३६३ नमो मोक्षप्रदे देवि नमः संपत्प्रदायिके ॥ २ ॥ तुलसी पातु मां नित्यं सर्वापद्धयोऽपि सर्वदा । कीर्तितापि स्मृता वापि पवित्रयति मानवम् ॥ ३ ॥ नमामि शिरसा देवीं तुलसीं विलसत्तनुम् | यां दृष्ट्वा पापिनो मर्त्या मुच्यंते सर्वकिल्बिषात् ॥ ४ ॥ तुलस्या रक्षितं सर्वं जगदेतच्च- राचरम् | या विनिर्हति पापानि दृष्ट्वा वा पापिभिर्नरैः ॥ ५ ॥ नमस्तुलस्यतितरां यस्यै बड्डा बलिं कलौ । क लयंति सुखं सर्वे स्त्रियो वैश्यास्तथापरे ॥ ६ ॥ तुलस्या नापरं किंचिदैवतं जगतीतले । यया पवित्रितो लोको विष्णुसंगेन वैष्णवः ॥ ७ ॥ तुलस्याः पल्लवं विष्णोः शि. रस्यारोपितं कलौ । आरोपयति सर्वाणि श्रेयांसि वरम स्तके ॥ ८ ॥ तुलस्यां सकला देवा वसंति सततं यतः । अतस्तामर्चयेल्लोके सर्वान्देवान्समर्चयन् ॥ ९ ॥ नमस्तु- लसि सर्वज्ञे पुरुषोत्तमवल्लभे | पाहि मां सर्वपापेभ्यः सर्वसंपत्प्रदायिके ॥ १० ॥ इति स्तोत्रं पुरा गीतं पुंड- रीकेण धीमता । विष्णुमर्चयता नित्यं शोभनैस्तुलसी- दलैः ॥ ११ ॥ तुलसी श्रीमहालक्ष्मीर्विद्याविद्या यशस्वि नी। धर्म्या धर्मानना देवी देवदेवमनःप्रिया ॥ १२ ॥ लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला । पोडशै- तानि नामानि तुलस्याः कीर्तयन्नरः ॥ १३ ॥ लभते सु तरां भक्तिमंते विष्णुपदं लभेत् । तुलसी भूर्महालक्ष्मीः