पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे पद्मिनी श्रीर्हरिप्रिया ॥ १४॥ तुलसि श्रीसखि शुभे पाप- हारिणि पुण्यदे । नमस्ते नारदनुते नारायण मनःप्रिये ॥ १५ ॥ इति श्रीपुंडरीककृतं तुलसीस्तोत्रं संपूर्णम् ॥ १७७. श्रीवेदव्यासाष्टकम् । श्रीगणेशाय नमः ॥ कलिमलास्तविवेकदिवाकरं समव- लोक्य तमोवलितं जनम् | करुणया भुवि दर्शितवि- ग्रहं मुनिवरं तमहं सततं भजे ॥ १ ॥ भरतवंशसमु द्धरणेच्छया स्वजननीवचसा परिनोदितः । अजनयत्त- नयत्रितयं प्रभुर्मुनिवरं तमहं सततं भजे ॥ २ ॥ मतिब- लादि निरीक्ष्य कलौ नृणां लघुतरं कृपया निगमां- बुधेः । समकरोदिह भागमनेकधा मुनिवरं तमहं सततं भजे ॥ ३ ॥ सकलधर्मनिरूपणसागरं विविधचित्रक- थासमलंकृतम् । व्यरचयच्च पुराणकदंबकं मुनिवरं त- महं सततं भजे ॥ ४ ॥ श्रुतिविरोधसमन्वयदर्पणं नि- खिलवादिमतांध्यविदारणम् । ग्रथितवानपि सूत्रसमूहकं मुनिवरं तमहं सततं भजे ॥ ५ ॥ यदनुभाववशेन दिवं गतः समधिगम्य महास्त्रसमुच्चयम् | कुरुचमूम- जयद्विजयो द्रुतं मुनिवरं तमहं सततं भजे ॥ ६ ॥ समर- वृत्तविबोधसमीहया कुरुवरेण मुदा कृतयाचनः । सपदि सूतमदादमलेक्षणं मुनिवरं तमहं सततं भजे ॥ ७ ॥ वननिवासपरौ कुरुदंपती सुतशुचा तपसा च विकाश- 4