पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे हरिचरणयोश्वारु सुचिरं स्थितिं स्थाणुप्रायां भवभयहरां यास्यति पराम् ॥ ५ ॥ कदा मे संरुदाखिलकरणजालस्य परितो जिताशेषप्राणानिलपरिकरस्य प्रजपतः । सदोंकारं चित्तं हदिसरोजे धृतवतः समेव्यत्युल्लासं मुहुरखिल- रोमावलिरियम् ॥ ६ ॥ कदा प्रारब्धांते परिशिथिलतां गच्छति शनैः शरीरे चाक्षौघेप्युपरतवति प्राणपवने । वदत्यूर्ध्वं शश्वन्ममवदनकंजे मुहुरहो करिष्यत्यावासं हरि- रिति पदं पावनतमम् ॥७॥ कदा हित्वा जीर्णो त्वचमिव भुजंगस्तनुमिमां चतुर्बाहुश्चक्रांबुजदरकरः पीतवसनः । घनश्यामो दूतैर्गगनगतिनीतो नतिपरैर्गमिष्यामीशस्यां- तिकम खिलदुःखांतकमिति ॥ ८ ॥ इति श्रीमत्परमहंस- स्वामिब्रह्मानंदविरचितमभिलाषाष्टकं संपूर्णम् ॥ १७९. श्रीहरिशरणाष्टकम् | श्रीगणेशाय नमः ॥ ध्येयं वदंति शिवमेव हि केचिदन्ये शक्तिं गणेशमपरे तु दिवाकरं वै । रूपैस्तु तैरपि वि भासि यतस्त्वमेव तस्मात्वमेव शरणं मम शंखपाणे ॥ १ ॥ नो सोदरो न जनको जननी न जाया नैवात्म- जो न च कुलं विपुलं बलं वा। संदृश्यते न किल कोऽपि सहायको मे तस्मात्त्वमेव शरणं मम शंखपाणे ॥ २ ॥ नोपासिता मदमपास्य मया महांतस्तीर्थानि चास्तिक-