पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकीर्णस्तोत्राणि | ३६७ - धिया नहि सेवितानि | देवार्चनं च विधिवन कृतं कदापि तस्मात्वमेव शरणं मम शंखपाणे ॥ ३ ॥ दुर्वा सना सम सदा परिकर्षयंति चित्तं शरीरमपि रोगगणा दर्हति । संजीवनं च परहस्तगतं सदैव तस्मात्त्वमेव शरणं मम शंखपाणे ॥ ४ ॥ पूर्व कृतानि दुरितानि मया तु यानि स्मृत्वाsखिलानि हृदयं परिकंपते मे । ख्याता च ते पतितपावनता तु यस्मात् तस्मात्वमेव शरणं मम शंखपाणे ॥ ५ ॥ दुःखं जराजननजं विवि धाश्च रोगाः काकश्वसूकरजनिर्निरये च पातः । ते वि- स्मृतेः फलमिदं विततं हि लोके तस्मात्वमेव शरणं मम शंखपाणे ॥ ६ ॥ नीचोऽपि पापवलितोऽपि विनिंदि- तोऽपि ब्रूयात्तवाहमिति यस्तु किलैकवारम् । तं यच्छ- सीश निजलोकमिति व्रतं ते तस्मात्त्वमेव शरणं मम शंखपाणे ॥ ७ ॥ वेदेषु धर्मवचनेषु तथागमेषु रामाय- णेपि च पुराणकदंबके वा । सर्वत्र सर्वविधिना गदि- तस्त्वमेव तस्मात्यमेव शरणं मम शंखपाणे ॥ ८ ॥ इति श्रीपरमहंस स्वामिब्रह्मानंदविरचितं श्रीहरिशरणाष्टकं संपूर्णम् ॥ 1 € १८०. चतुःश्लोकीभागवतम् । श्रीगणेशाय नमः ॥ श्रीभगवानुवाच । ज्ञानं परमगुझं