पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकीर्णस्तोत्राणि । पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः । सर्वस्य धा तारमचिंत्यरूपमादित्यवर्ण तमसः परस्तात् ॥ ४॥ ऊर्ध्व- मूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छंदांसि यस्य पर्णा- नि यस्तं वेद स वेदवित् ॥ ५ ॥ सर्वस्य चाहं हृदि संनि- विष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च | वेदैश्च सर्वैरहमेच वेद्यो वेदांतकृद्वेदविदेव चाहम् ॥ ६ ॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु | मामेवैष्यसि युक्त्वैवमा- त्मानं मत्परायणः ॥ ७ ॥ इति श्रीमद्भगवद्गीतासूपनिष- त्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सप्तश्लो- की गीता संपूर्णा || १८२. पांडवगीता । श्रीगणेशाय नमः ॥ पांडव उवाच । प्रह्लादनारदपराशरपु- ण्डरीकव्यासांबरीषशुकशौनक भीष्मदाल्भ्यान् । रुक्मांग- दार्जुनवसिष्ठविभीषणादीन्पुण्यानिमान्परमभागवतान्स्म- रामि ॥ १ ॥ लोमहर्षण उवाच । धर्मो विवर्धति युधि- ष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन । शत्रुर्विन- इयति धनंजय कीर्तनेन मागीसुतौ कथयतां न भवंति रोगाः ॥ २ ॥ ब्रह्मोवाच । ये मानवा विगतरागपरावर- ज्ञा नारायणं सुरगुरुं सततं स्मरंति । ध्यानेन तेन हत- किल्बिषचेतनास्ते मातुः पयोधररसं न पुनः पिबंति ॥ ३ ॥ इ उवाच | नारायणो नाम नरो नराणां प्रसि-