पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकीर्णस्तोत्राणि । तस्य मे भवतु केशवत्वत्प्रसादास्वय्येव भक्तिरचलाऽत्र्य- भिचारिणी च ॥ १२ ॥ सुभद्रोवाच । एकोऽपि कृष्णस्य कुतः प्रणामो दशाश्वमेधावभृथेन तुल्यः | दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥१३॥ अभिमन्युरुवाच गोविंद गोविंद हरे मुरारे गोविंद गोविंद रथांगपाणे । गो- विंद गोविंद मुकुंद कृष्ण गोविंद गोविंद नमो नमस्ते ॥ १४ ॥ धृष्टद्युम्न उवाच । श्रीराम नारायण वासुदेव गोविंद वै- कुंठ मुकुंद कृष्ण | श्रीकेशवानंत नृसिंह विष्णो मां त्राहि संसारभुजंगदष्टम् ॥ १५ ॥ सात्यकिरुवाच | अप्रमेय हरे विष्णो कृष्ण दामोदराच्युत | गोविंदानंत सर्वेश वासु- देव नमोऽस्तु ते ॥ १६ ॥ उद्धव उवाच | वासुदेवं परि- त्यज्य योऽन्यं देवमुपासते | तृपितो जाह्नवीतीरे कृषं वा- ञ्छति दुर्भगः ॥ १७ ॥ धौम्य उवाच । अपां समीपे शय- नासनस्थं दिवा च रात्रौ च यथाधिगच्छताम् । यद्यस्ति किंचित्सुकृतं कृतं मया जनार्दनस्तेन कृतेन तुप्यतु ॥ १८ ॥ संजय उवाच ॥ आर्ता विषण्णाः शिथिलाच भीता घो रेषु व्याघ्रादिपु वर्तमानाः । संकीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवंति ॥ १९ ॥ अक्रूर उवाच । अहं तु नारायणदासदासदासस्य दासस्य च दासदासः | अन्येभ्य ईशो जगतो नराणामस्मादहं चान्यनरोऽस्मि