पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४ बृहत्स्तोत्ररत्नाकरे पच्यमानं तु यमेन परिभाषितम् । किं त्वया नार्चितो देवः केशवः केशनाशनः ॥ ३९ ॥ नारद उवाच । जन्मां- तरसहस्रेण तपोध्यानसमाधिभिः । नराणां क्षीणपा- पानां कृष्णे भक्तिः प्रजायते ॥ ४० ॥ प्रह्लाद उवाच । नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् । तेषु तेष्वचला भक्तिरच्युताऽस्तु सदा त्वयि ॥ ४१ ॥ या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्माऽप- सर्पतु ॥ ४२ ॥ विश्वामित्र उवाच । किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः । यो नित्यं ध्यायते देवं नरा- णां मनसि स्थितम् ॥ ४३ ॥ जमदग्निरुवाच । नित्योत्स- वस्तदा तेषां नित्यश्रीर्नित्यमंगलम् । येषां हृदिस्थो भग- वान्मंगलायतनं हरिः ॥ ४४ ॥ भरद्वाज उवाच | लाभ- स्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषामिंदीवरश्यामो हृदयस्थो जनार्दनः ॥ ४५ ॥ गौतम उवाच । गोकोटिदानं ग्रहणेपु काशीप्रयागगंगाऽयुतकल्पवासः । यज्ञायुतं मेरु- सुवर्णदानं गोविंदनाम्ना न कदापि तुल्यम् ॥४६॥ अन्त्रि- रुवाच । गोविंदेति सदा स्त्रानं गोविंदेति सदा जपः । गोविंदेति सदा ध्यानं सदा गोविंदकीर्तनम् ॥ १७ ॥ अक्षरं हि परं ब्रह्म गोविंदेत्यक्ष त्रयम् । तस्मादुच्चरितं येन ब्रह्मभूयाय कल्पते ॥ ४८ ॥ श्रीशुक उवाच | अच्युतः कल्पवृक्षोऽसावनंतः कामधेनवः । चिंतामणिश्च गोविंदो 1