पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकीर्णस्तोत्राणि । हरिनाम विचिंतयेत् ॥ ४९॥ हरिरुवाच | जयति जयति देवो देवकीनंदनोऽयं जयति जयति कृष्णो वृष्णिवंश- प्रदीपः । जयति जयति मेघश्यामलः कोमलाङ्गो जयति जयति पृथ्वीभारनाशो मुकुंदः ॥ ५० ॥ पिप्पलायन उवाच । श्रीमन्नृसिंहविभवे गरुडध्वजाय तापत्रयोपशम- नाय भवौषधाय । कृष्णाय वृश्चिकजलाग्निभुजंगरोगक्ले- शव्ययाय हरये गुरवे नमस्ते ॥ ५१ ॥ आविर्होत्र उवाच । कृष्ण त्वदीयपदपंकज पंजरांते अद्यैव मे विशतु मानसराज- हंसः | प्राणप्रयाणसमये कफवातपित्तैः कंठावरोधनविधौ स्मरणं कुतस्ते ॥ ५२ | विदुर उवाच | हरेर्नामैव नामैव नामैव मम जीवनम् । कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥ ५३ ॥ वसिष्ठ उवाच | कृष्णेति मंगलं नाम यस्य वाचि प्रवर्तते । भस्मीभवंति तस्याशु महा- पातककोटयः ॥ ५४ ॥ अरुंधत्युवाच | कृष्णाय वासुदे- वाय हरये परमात्मने । प्रणतक्लेशनाशाय गोविंदाय नमो नमः ॥ ५५ ॥ कश्यप उवाच | कृष्णानुस्मरणादेव पाप संघातपंजरः । शतधा भेदमामोति गिरिर्वजहतो यथा ॥ ५६ ॥ दुर्योधन उवाच । जानामि धर्म न च मे प्रवृ त्तिर्जानामि पापं न च मे निवृत्तिः | केनापि देवेन हृदि - स्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥ ५७ ॥ यत्र स्वगुणदोषेण क्षम्यतां मधुसूदनः | अहमेवमहं हंतुं मम