पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकीर्णस्तोत्राणि । न्वंतरिरुवाच | जात् । नश्यंति युतानंत गोविंद नामोच्चारणभेष- कला रोगाः सत्यं सत्यं वदाम्यहम् ॥ ६९ ॥ मार्केडेय उवाच । सा हानिस्तन्महच्छिद्रं सा चां- धजडमूढता | यन्मुहूर्त क्षणं वापि वासुदेवं न चिंत- येत् ॥ ७० ॥ भगस्त्य उवाच । निमिपं निमिषार्धे वा प्राणिनां विष्णुचिंतनम् | ऋतुकोटिसहस्राणां ध्यानमेकं विशिष्यते ॥ ७१ | मनसा कर्मणा वाचा ये स्मरंति जनार्दनम् । तत्र तत्र कुरुक्षेत्रं प्रयागो नैमिषं वनम् ॥ ७२ ॥ श्रीशुक उवाच । आलोड्य सर्वशास्त्राणि विचा- यैवं पुनः पुनः । इदमेकं सुनष्पन्नं ध्येयो नारायणः सदां ॥ ७३ ॥ श्रीमहादेव उवाच । शरीरं च नवच्छिद्रं व्याधिग्रस्तं कलेवरम् । औषधं जाह्नवीतोयं वैद्यो नारा- यणो हरिः ॥ ७४ ॥ शौनक उवाच | भोजनाच्छादने चिंतां वृथा कुर्वति वैष्णवाः । योऽसौ विश्वंभरो देवः स भक्तान् किमुपेक्षते ॥ ७५ ॥ एवं ब्रह्मादयो देवा ऋष- यश्च तपोधनाः । कीर्तयंति सुरश्रेष्ठं देवं नारायणं वि- भुम् ॥ ७६ ॥ सनत्कुमार उवाच । यस्य हस्ते गदा चक्रं गरुडो यस्य वाहनम् । शंखः करतले यस्य समे विष्णुः प्रसीदतु ॥ ७७ ॥ इदं पवित्रमायुष्यं पुण्यं पाप- प्राणशनम् | यः पठेत्प्रातरुत्थाय वैष्णवं स्तोत्रमुत्तमम् ॥ ७८ ॥ सर्वपापविनिर्मुक्तो विष्णुसायुज्यमामुयात् ।