पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणेशस्तोत्राणि | स्थास्तमेकदंतं ० ॥ ८ ॥ ततस्त्वया प्रेरित एव नादस्तेनेद- मेवं रचितं जगहै। आनंदरूपं समभावसंस्थं तमेक० ॥९॥ तदेव विश्वं कृपया तवैव संभूतमाद्यं तमसा विभातम् । अनेकरूपं ह्यजमेकभूतं तमेक० ॥ १० ॥ ततस्त्वया प्रेरि तमेव तेन सृष्टं सुसूक्ष्मं जगदेवसंस्थम् | सत्वात्मकं श्वेतमनंतमाद्यं तमेक० ॥ ११ ॥ तदेव स्वमं तपसा गणेश संसिद्धिरूपं विविधं बभूव । सदेकरूपं कृपया तवापि तमेक० ॥१२॥ संप्रेरितं तच्च त्वया हृदिस्थं तथा सुसृष्टं जगदंशरूपम् । तेनैव जाग्रन्मयमप्रमेयं तमेक० ॥१३॥ जाग्रत्स्वरूपं रजसा विभातं विलोकितं तत्कृपया यदैव । तदा विभिन्नं भवत्येकरूपं तमेक० ॥ १४ ॥ एवं च सृष्ट्वा प्रकृतिस्वभावात्तदंतरे त्वं च विभासि नित्यम् | बुद्धिप्र- दाता गणनाथ एकस्तमेक० ॥ १५ ॥ त्वदाज्ञया भानि ग्रहाश्च सर्वे नक्षत्ररूपाणि विभांति खे वै । आधारही- नानि त्वया वृतानि तमेक० ॥ १६ ॥ त्वदाज्ञया सृष्टि- करो विधाता त्वदाज्ञया पालक एव विष्णुः । त्वदाज्ञया संहरको हरोऽपि तमेक० ॥ १७ ॥ यदाज्ञया भूर्जलमध्य- संस्था यदाज्ञयाऽपः प्रवहंति नद्यः । सीमां सदा रक्षति वै ससुद्रस्तमेक० ॥ १८ ॥ यदाज्ञया देवगणो दिविस्थो ददाति वै कर्मफलानि नित्यम् । यदाज्ञया शैलगणोऽच- लो वै तमेक० ॥१९॥ यदाज्ञया शेष इलाधरो वै यदा- ज्ञया मोहप्रदश्च कामः । यदाज्ञया कालघरोऽर्यमा च त