पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ बृहत्स्तोत्ररत्नाकरे मेक० ॥२०॥ यदाज्ञया वाति विभाति वायुर्यदाज्ञया ऽग्निर्जठरादिसंस्थः । यदाज्ञया वै सचराचरं च तमेक० ॥ २१ ॥ सर्वोतरे संस्थितमेकगूढं यदाज्ञया सर्वमिदं विभाति । अनंतरूपं हृदि बोधकं वै तमेक० ॥ २२ ॥ यं योगिनो योगबलेन साध्यं कुर्वति तं कः स्तवनेन स्तौति । अतः प्रणामेन सुस्तुितमेक० ॥ २३ ॥ गृत्समद उवाच । एवं स्तुत्वा च प्रहाद देवाः समु नयश्च वै । तूष्णींभावं प्रपद्येव ननृतुर्हर्षसंयुताः ॥ २४ ॥ स तानुवाच प्रीतात्मा ह्येकदंतः स्तवेन वै । जगाद तान्महाभागान्देवर्षीन्भक्तवत्सलः ॥ २५ ॥ एकदंत उ- वाच । प्रसन्नोऽस्मि च स्तोत्रेण सुराः सर्षिगणाः किल । वृणुत वरदोऽहं वो दास्यामि मनसीप्सितम् ॥ २६ ॥ भवत्कृतं मदीयं वै स्तोत्रं श्रीतिप्रदं मम | भविष्यति न संदेहः सर्वसिद्धिप्रदायकम् ॥ २७ ॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः । पुत्रपौत्रादिकं सर्व लभते धनधान्यकम् ॥ २८ ॥ गजाश्वादिकमत्यंत राज्यभोगं लभेब्रुवम् | भुक्तिं मुक्तिं च योगं वै लभते शांतिदायकम् ॥ २९ ॥ मारणोच्चाटनादीनि राज्यबंधा- दिकं च यत् । पठतां शृण्वतां नॄणां भवेच्च बंधहीनताम् ॥ ३० ॥ एकविंशतिवारं च लोकांश्चैवैकविंशतिम् । पठते नित्यमेवं च दिनानि त्वेकविंशतिम् ॥३१॥ न तस्य दुर्लभं किंचित्रिषु लोकेषु वै भवेत् । असाध्यं साधये-