पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि | - गदया प्रातरव्यागोविंद आसंगव आत्तवेणुः । नारायणः प्राह उदात्तशक्तिर्मध्यंदिने विष्णुररींद्रपाणिः ॥ २० ॥ देवोऽपराहे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम् । दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्म- नाभः ॥ २१ ॥ श्रीवत्सधामाऽपररात्र ईश: प्रत्यूष ईशोऽसिधरो जनार्दनः । दामोदरोऽव्यादनुसंध्यं प्रभाते विश्वेश्वरो भगवान्कालमूर्तिः ॥ २२ ॥ चक्रं युगांतानलति- ग्मनेमि भ्रमत्समंताद्भगवत्प्रयुक्तम् । दंदग्धि दंदग्ध्यरिसै- न्यमाशु कक्षं यथा वातसखो हुताशः ॥२३॥ गदेऽशनि- स्पर्शनविस्फुलिंगे निष्पिढि निषिढ्यजितप्रियासि । कूष्मां- डवैनायकयक्षरक्षोभूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४ ॥ त्वं यातुधानप्रमथप्रेतमातृपिशाचविप्रग्रहघोरदृष्टीन् । नरेंद्र विद्वावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि कंपयन्॥२५॥ त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिंधि छिंधि । चक्षूंषि चर्मन् शतचंद्र छादय द्विषामघोनां हर पापचक्षुषाम् ॥ २६ ॥ यन्नो भयं अहेभ्योऽभूत्केतुभ्यो नृभ्य एव च । सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योऽघेभ्य एव च ||२७|| सर्वाप्येतानि भगवन्नामरूपास्त्र कीर्तनात् । प्रयांतु संक्षयं सद्यो येऽन्ये श्रेयः प्रतीपकाः ॥ २८ ॥ गरुडो भगवान्स्तोत्रस्तोभश्छंदोमयः प्रभुः । रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनस्य वाहनम् ॥ २९ ॥ सर्वापच्यो हरेर्नामरू-