पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि | मुच्यते सर्वतो भयात् ॥ ४१ ॥ श्रीशुक उवाच । एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः । त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ ४२ ॥ इति श्रीमद्भागवते महा- पुराणे षष्टस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्यायः ॥ १२. विष्णुपंजरस्तोत्रम् | श्रीगणेशाय नमः । ॐ अस्य श्रीविष्णुपंजरस्तोत्रमंत्रस्य नारद ऋषिः । अनुष्टुप् छंदः । श्रीविष्णुः परमात्मा देवता । अहं बीजम् । सोहं शक्तिः । ॐहीं कीलकम् । मम सर्वदेहरक्षणार्थं जपे विनियोगः | नारदऋषये नमः मुखे । श्रीविष्णुपरमात्मदेवतायै नमः हृदये | अहं बीजं गुह्ये । सोहं शक्तिः पादयोः । ॐहीं कीलकं पादाग्रे । ॐ ह्रीं ह्रौंहः इति मंत्रः | ॐहां अंगुष्ठाभ्यां नमः | ॐ ह्रीं तर्जनीभ्यां नमः | ॐहूं मध्यमाभ्यां नमः | ॐ अनामिकाभ्यां नमः । ॐ ह्रौं कनिष्ठिकाभ्यां नमः । ॐहः करतलकरपृष्ठाभ्यां नमः । इति करन्यासः । अथ हृदयादि- न्यासः । ॐहां हृदयाय नमः । ॐहीं शिरसे स्वाहा ॐ हूं शिखायै वषट् । ॐहैं कवचाय हुम् । ॐौं नेत्र- त्रयाय वौषट् । ॐहः अस्त्राय फट् | इति अंगन्यासः । अहंबीजप्राणायामं मंत्रत्रयेण कुर्यात् । अथ ध्यानम् । परं परस्मात्प्रकृतेरनादिमेकं निविष्टं बहुधा गुहायाम् । सर्वालयं सर्वचराचरस्थं नमामि विष्णुं जगदेकनाथ-