पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे जयतु कृष्णो वृष्णिवंशप्रदीपः । जयतु जयतु मेघश्यामलः कोमलांगो जयतु जयतु पृथ्वीभारनाशो मुकुंदः ॥ ३ ॥ मुकुंद मूर्ध्ना प्रणिपत्य याचे भवंतमेकांतमियंतमर्थम् । अविस्मृतिस्त्वच्चरणारविंदे भवे भवे मेऽस्तु भवत्प्रसादात् ॥४॥ श्रीगोविंदपदांभोजमधुनो महदद्भुतम् । यत्पायिनो न मुंचंति मंचंति यदपायिनः ॥ ५ ॥ नाहं वंदे तव चर णयोहमद्वंद्वहेतोः कुंभीपाकं गुरुमपि हरे नारकं नापने- तुम् | रम्यारामामृदुतनुलतानंदनेनापि रंतुं भावे भावे हृदयभवने भावयेयं भवंतम् ॥६॥ नास्था धर्मे न वसु- निचये नैव कामोपभोगे यद्यद्भव्यं भवतु भगवन्पूर्वक - मनुरूपम् । एतत्प्रार्थ्यं मम बहु मतं जन्मजन्मांतरेऽपि त्वत्पादांभोरुहयुगगता निश्चला भक्तिरस्तु ॥ ७ ॥ दिवि वा भुवि वा ममास्तु वासो नरके वा नरकांतक प्रकामम् । अवधीरितशारदारविंदौ चरणौ ते मरणेपि विचिंतयामि ॥ ८ ॥ सरसिजनयने सशंखचक्रे मुरभिदि मा विरमस्व चित्त रंतुम् । सुखतरमपरं न जातु जाने हरिचरणस्मरणा- मृतेन तुल्यम् ॥ ९ ॥ मा भैर्मंदमनो विचित्य बहुधा या. मीश्चिरं यातना नैवामी प्रभवंति पापरिपवः स्वामी ननु श्रीधरः । आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारा- यणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥ १० ॥ भवजलधिगतानां द्वंद्ववाताहतानां सुतदुहितृ