पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि | विधुश्चेत्पाता माऽवतु जनितेर्दुःखजलधेः । हरः संहती संहरतु मम शोकं सजनकं यथाऽहं मुक्तः स्यां किमपि तु तथा ते विदधताम् ॥ ४॥ अहं ब्रह्मानंदस्त्वमपि च तदा- ख्यः सुविदितस्ततोऽहं भिन्नो नो कथमपि भवत्तः श्रुति- दृशा। तथा चेदानीं त्वं त्वयि मम विभेदस्य जननीं स्व- मायां संवार्य प्रभव मम भेदं निरसितुम् ॥ ५ ॥ कदाऽहं हे स्वामिन् जनिमृतिमयं दुःखनिबिडं भवं हित्वा सत्ये- अनवरतसुखे स्वात्मवपुषि | रमे तस्मिन्नित्यं निखिलमु- नयो ब्रह्मरसिका रमंते यस्मिंस्ते कृतसकलकृत्या यतिवराः || ६ || पठत्येके शास्त्रं निगममपरे तत्परतया यजंत्यन्ये त्वां वै ददति च पदार्थोस्तव हितान् । अहं तु स्वामिंस्ते शरणमगमं संसृतिभयाद्यथा ते प्रीतिः स्याद्धितकर तथा त्वं कुरु विभो ॥ ७ ॥ अहं ज्योतिर्नित्यो गगनमिव तृप्तः सुखमयः श्रुतिः सिद्धोऽद्वैतः कथमपि न भिन्नोऽस्मि वि धुतः । इति ज्ञाते तत्वे भवति च परः संसृतिलयादत- स्तत्त्वज्ञानं मयि विघट येस्त्वं हि कृपया ॥८॥ अनादौ सं- सारे जनिम्मृतिमये दुःखितमना मुमुक्षुः सन्कश्चिद्भजति हि गुरुं ज्ञानपरमम् । ततो ज्ञात्वा यं वै तुदति न पुनः केशनिवहैर्भजेऽहं तं देवं भवति च परो यस्य भजनात् ॥ ९ ॥ विवेको वैराग्यं न च शमदमाद्याः षडपरे मुमुक्षा मे नास्ति प्रभवति कथं ज्ञानममलम् । अतः संसाराब्धेस्त- ३