पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररलाकरे रणसरणिं मामुपदिशन् स्वबुद्धिं श्रौतीं मे वितर भगवं- स्त्वं हि कृपया ॥ १०॥ कदाऽहं भो स्वामिन्निगममतिवेद्यं शिवमयं चिदानंदं नित्यं श्रुतिहत परिच्छेदनिवहम् | त्वम- र्थाभिनं त्वामभिरम इहात्मन्यविरतं मनीषामेवं मे स- फलय वदान्य स्वकृपया ॥ ११ ॥ यदर्थं सर्व वै प्रियम- सुधनादि प्रभवति स्वयं नान्यार्थो हि प्रिय इति च वेदे प्रविदितम् । स आत्मा सर्वेषां जनिमृतिमतां वेदगदित- स्ततोऽहं तं वेद्यं सततममलं यामि शरणम् ॥ १२ ॥ मया त्यक्तं सर्व कथमपि भवेत्स्वात्मनि मतिस्त्वदीया माया मां प्रति तु विपरीतं कृतवती । ततोऽहं किं कुर्या नहि मम मतिः क्वापि चरति दयां कृत्वा नाथ स्वपदशरणं देहि शिवदम् ॥ १३ ॥ नगा दैत्याः कीशा भवजलधिपारं हि गमितास्त्वया चान्ये स्वामिन्किमिति समयेऽस्मिन्छ- यितवान् | न हेलां त्वं कुर्यास्त्वयि निहितसर्वे मयि विभो नहि त्वाऽहं हित्वा कमपि शरणं चान्यमगमम् ॥ १४ ॥ अनंताद्या विज्ञानगुणजलधेस्तेंऽतमगमन्नतः पारं यायात्त- व गुणगणानां कथमयम् | गृणन्यावद्धित्वा जनिमृतिहरं याति परमां गतिं योगिप्राप्यामिति मनसि बुवाहमनवम् ॥ १५ ॥ इति श्रीमन्मौक्तिकरामोद | सीन शिष्यब्रह्मानंद- विरचितं परमेश्वरस्तुतिसारस्तोत्रं संपूर्णम् ॥