पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि | २३. भगवच्छरणस्तोत्रम् | श्रीगणेशाय नमः ॥ सच्चिदानंदरूपाय भक्तानुग्रहका- रिणे । मायानिर्मितविश्वाय महेशाय नमो नमः ॥ १ ॥ रोगा हरंति सततं प्रबलाः शरीरं कामादयोऽप्यनुदिनं प्रदहंति चित्तम् । मृत्युश्च नृत्यति सदा कलयन्दिनानि तस्मात्त्वमद्य शरणं मम दीनबंधो ॥ २ ॥ देहो विन- श्यति सदा परिणामशीलश्चित्तं च खिद्यति सदा विष यानुराग | बुद्धिः सदा हि रमते विषयेषु नांतस्तस्मा- त्वमद्य शरणं मम दीनबंधो ॥ ३ ॥ आयुर्विनश्यति य थामघटस्थतोयं विद्युत्प्रभेव चपला बत यौवनश्रीः । वृद्धा प्रधावति यथा मृगराजपत्नी तस्मात्त्वमद्य शरणं मम दीनबंधो ॥४॥ आयाद्व्ययो मम भवत्यधिको विनीते कामादयो हि बलिनो निबलाः शमाद्याः । मृत्युर्यदा तुदति मां बत किं वदेयं तस्मात् ॥५॥ तप्तं तपो नहि कदाऽपि मयेह तन्वा वाण्या तथा नहि कदापि तपश्च तप्तम् । मिथ्याभिभाषणपरेण न मानसं हि तस्मात् ० ॥ ६॥ स्तब्धं मनो मम सदा नहि याति सौम्यं चक्षुश्च मे न तव पश्यति विश्वरूपम् । वाचा तथैव न वदेन्मम सौम्यवाणीं तस्मात्० ॥७॥ सत्त्वं न मे मनसि याति रज- स्तमोभ्यां विद्धे तदा कथमहो शुभकर्मवार्ता | साक्षा- त्परंपरतया सुखसाधनं तत्तस्मात् ० ॥ ८ ॥ पूजा कृता