पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० बृहत्स्तोत्ररत्नाकरे • नहि कदाऽपि मया त्वदीया मंत्रं त्वदियमपि मे न जपे- द्वसज्ञा | चित्तं न मे स्मरति ते चरणौ ह्यवाप्य तस्मात् ॥ ९ ॥ यज्ञो न मेऽस्ति हुतिदानदयादियुक्तो ज्ञानस्य साधनगणो न विवेकमुख्यः । ज्ञानं व साधनगणेन विना क मोक्षस्तस्मात् ० ॥ १० ॥ सत्संगतिर्हि विदिता तव भक्तिहेतुः साऽप्यद्य नास्ति बत पंडितमानिनो मे । तामंतरेण नहि सा क्व च बोधवार्ता तस्मात् ॥ ११ ॥ दृष्टिर्न भूतविषया समताभिधाना वैषम्यमेव तदियं वि षयीकरोति । शांतिः कुतो मम भवेत्समता न चेत्स्यात्त- स्मात् ० ॥१२॥ मैत्री समेषु न च मेऽस्ति कदापि नाथ दीने तथा न करुणा मुदिता च पुण्ये । पापेऽनुपेक्षणवतो मम मुत्कथं स्यात्तस्मात् || १३ || नेत्रादिक मम बहि- विषयेषु सक्तं नांतर्मुखं भवति तामविहाय तस्य । क्वांत- मुखत्वमपहाय सुखस्य वार्ता तस्मात् ० ॥ १४ ॥ व्यक्तं गृहाद्यपि मया भवतापशांयै नासीदसौ हृतgat Pr मायया ते । सा चाधुना किमु विधास्यति नेति जाने तस्मात् ० ॥ १५ ॥ प्राप्ता धनं गृहकुटुंबगजाश्वदारा राज्यं यदैहिकमथेंद्रपुरश्च नाथ | सर्वे विनश्वरमिदं न फलाय कस्मै तस्मात् ॥ १६ ॥ प्राणान्निरुध्य विधिना न कृतो हि योगो योगं विनाऽस्ति मनसः स्थिरता कुतो मे । तां वै विना मम न चेतसि शांतिवार्ता तस्मात् ० ॥ १७ ॥ ०