पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि | वंदे लक्ष्मणप्रियम् ॥ १७ ॥ हरिं च हरिणाक्ष च हरिनाथं हरिप्रियम् | हलायुधसहायं च तं वंदे हनुमत्पतिम् ॥ १८ ॥ हरिनामकृता माला पवित्रा पापनाशिनी । बलिराजेंद्रेण चोक्ता कंठे धार्या प्रयत्नतः ॥ १९ ॥ इति बलिराजेंद्रणोक्तं हरिनाममालास्तोत्रं संपूर्णम् ॥ २५. शालिग्रामस्तोत्रम् | श्रीगणेशाय नमः ॥ अस्य श्रीशालिग्रामस्तोत्रमंत्रस्य श्रीभगवानृषिः । नारायणो देवता । अनुष्टुप् छंदः । श्रीशालिग्रामस्तोत्रमंत्रजपे विनियोगः | युधिष्ठिर उवाच । श्रीदेवदेव देवेश देवतार्चनमुत्तमम् । तत्सर्वे श्रोतुमि- च्छामि ब्रूहि मे पुरुषोत्तम ॥ १ ॥ श्रीभगवानुवाच । गंडक्यां चोत्तरे तीरे गिरिराजस्य दक्षिणे | दशयोजनवि- स्तीर्णा महाक्षेत्रवसुंधरा ॥ २ ॥ शालिग्रामो भवेद्देवो देवी द्वारावती भवेत् । उभयोः संगमो यत्र मुक्तिस्तत्र न संशयः ॥३॥ शालिग्रामशिला यत्र यत्र द्वारावती शिला । उभयोः संगमो यत्र मुक्तिस्तन्न न संशयः ॥४॥ आजन्म- कृतपापानां प्रायश्चित्तं य इच्छति । शालिग्रामशिलावारि पापहारि नमोस्तु ते ॥ ५॥ अकालमृत्युहरणं सर्वव्याधि- विनाशनम् । विष्णोः पादोदकं पीत्वा शिरसा धारया- म्यहम् ॥ ६॥ शंखमध्ये स्थितं तोयं भ्रमितं केशवोपरि । अंगलनं मनुष्याणां ब्रह्महत्यादिकं दहेत् ॥ ७ ॥ स्नानो-