पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि । गदाकूर्मा: शंखो यत्र प्रदृश्यते । शंखवर्णस्य देवानां वामे देवस्य लक्षणम् ॥ २० ॥ दामोदरं तथा स्थूलं मध्ये चक्रं प्रतिष्ठितम् । पूर्णद्वारेण संकीर्णा पीतरेखा च दृश्यते ॥ २१॥ छत्राकारे भवेद्राज्यं वर्तुले च महाश्रियः । चपटे च महा- दुःखं शूलाये तु रणं ध्रुवम् ॥ २२ ॥ ललाटे शेषभोगस्तु शिरोपरि सुकांचनम् | चक्रकांचनवर्णानां वामदेवस्य ल क्षणम् ॥ २३ ॥ वामपार्श्वे च वै चक्रे कृष्णवर्णस्तु पिंग- लम् । लक्ष्मीनृसिंहदेवानां पृथग्वर्णस्तु दृश्यते ॥ २४ ॥ लंबोष्ठे च दरिद्रं स्थापिंगले हानिरेव च । लनचक्रे भवे- याधिविंदारे मरणं ध्रुवम् ॥२६॥ पादोदकं च निर्माल्य मस्तके धारयेत्सदा । विष्णोर्दृष्टं भक्षितव्यं तुलसीदल- मिश्रितम् ॥ २६ ॥ कल्पकोटिसहस्राणि वैकुंठे वसते सदा । शालिग्रामशिलाबिंदुर्हत्याकोटिविनाशनः ॥२७॥ तस्मात्संपूजयेच्यात्वा पूजितं चापि सर्वदा । शालिग्राम- शिलास्तोत्रं यः पठेञ्च द्विजोत्तमः ॥ २८ ॥ स गच्छेत्परमं स्थानं यत्र लोकेश्वरो हरिः । सर्वपापविनिर्मुक्तो विष्णु. लोकं स गच्छति ॥२९॥ दशावतारा देवानां पृथग्वर्णस्तु दृश्यते । ईप्सितं लभते राज्यं विष्णुपूजामनुक्रमात् ॥३०॥ कोठ्यो हि ब्रह्महत्यानामगम्यागम्यकोटयः । ताः सर्वा नाशमायांति विष्णुनैवेद्यभक्षणात् ॥३१॥ विष्णोः पादो- दकं पीत्वा कोटिजन्माघनाशनम्। तस्मादष्टगुणं पापं भूमौ बिंदुनिपातनात् ॥३२॥ इति शालिग्रामस्तोत्रं संपूर्णम् ॥