पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि | सिंधौ शरसलिलघटावार्मुचः कार्मुकस्य ॥ ३ ॥ जीमूत- श्यामभासा मुहुरपि भगवद्वाहुना मोहयंती युद्धेषूद्धूय- माना झटिति तडिदिवालक्ष्यते यस्य मूर्तिः । सोऽसिस्त्रा- साकुलाक्षत्रिदशवपुरिपुः शोणितास्वादहप्तो नित्यानंदाय भूयान्मधुमथनमनोनंदको नंदको नः ॥ ४ ॥ कम्राकारा मुरारेः करकमलतलेनानुरागाद्गृहीता सम्यग्वृत्ता स्थिताग्रे सपदि न सहते दर्शनं या परेषाम् । राजंती दैत्यजीवास- वमदमुदिता लोहितालेपना कामं दीप्तांशुकांता प्रदि- शतु दयितेवास्य कौमोदकी नः ॥ ५ ॥ यो विश्वप्राणभू- तस्तनुरपि च हरेर्यानिकेतुस्वरूपो यं संचित्यैव सद्यः स्वय- मुरगवधूवर्गगर्भाः पतंति । चंचञ्चंडोरुतुंडत्रुटितफणिवसा- रक्तपंकांकितास्यं वंदे छंदोमयं तं खगपतिममलस्वर्णवर्ण सुपर्णम् ॥ ६॥ विष्णोर्विश्वेश्वरस्य प्रवरशयनकृत्सर्वलोकै- कधर्ता सोऽनंतः सर्वभूतः पृथुविमलयशाः सर्ववेदैश्च वेद्यः | पाता विश्वस्य शश्वत्सकलसुररिपुध्वंसनः पापहंता सर्वज्ञः सर्वसाक्षी सकलविषभयात्पातु भोगीश्वरो नः ॥ ७ ॥ वाग्भूगौर्यादिभेदैर्विदुरिह मनुयो यां यदीयैश्च पुंसां कारुण्याः कटाक्षैः सकृदपि पतितैः संपदः स्युः समग्राः । कुंदेंदुस्वच्छमंदस्मितमधुरमुखांभोरुहां सुंदरांगीं वंदे वंद्यामशेषैरपि मुरभिदुरोमंदिरामिंदिरां ताम् ॥ ८ ॥ या सूते सत्त्वजालं सकलमपि सदा संनिधानेन पुंसो धत्ते या सत्त्वयोगाच्चरमचरमिदं भूतये भूतजातम् । धात्रीं