पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० बृहत्स्तोत्ररताकरे हरेस्तौ मुदमतिशयिनीं मानसे नो विधत्ताम् ॥२०॥ पी- तेन द्योतते यश्चतुरपरिहितेनांबरेणात्युदारं जातालंकार- योगं जलमिव जलधेर्वाडवाग्निप्रभाभिः । एतत्पातित्य- दानो जघनमतिघनादेनसो माननीयं सातत्येनैव चेतो विषयमवतरत्पातु पीतांबरस्य ॥ २१ ॥ यस्या दामया त्रिधाम्नो जघनकलितया आजतेंऽगं यथाब्धेर्मध्यस्थो मंद- राद्रिर्भुजगपतिमहाभोगसंनद्धमध्यः | कांची सा कांच- नाभा मणिवर किरणैरुल्लसद्भिः प्रदीप्ता कल्यां कल्याण- दात्रीं मम मतिमनिशं कम्ररूपां करोतु ॥ २२ ॥ उन्न कत्रमुच्चैरुपचितमुदभूद्यत्र पत्रैर्विचित्रैः पूर्व गीर्वाणपूज्यं कमलजमधुपस्यास्पदं तत्पयोजम् । तस्मिन्नीलाइमनी- लैस्तरलरुचिजलैः पूरिते केलिबुद्ध्या नालीकाक्षस्य ना- भीसरसि वसतु नश्चित्तहंसश्चिराय ॥ २३ ॥ पातालं यस्य नालं वलयमपि दिशां पत्रपंक्किं नगेंद्रान्विद्वांसः केसरालीर्विदुरिह विपुलां कर्णिकां स्वर्णशैलम् । भूया- द्वायत्स्वयंभूमधुकरभवनं भूमयं कामदं नो नालीकं ना- भिपद्माकरभवमुरु तन्नागशब्दस्य शौरेः ॥ २४ ॥ कां- त्यंभःपूरपूर्णे लसदसितवलीभंगभास्वत्तरंगे गंभीराकार- नाभीचतुरतरमहावर्तशोभिन्युदारे । क्रीडत्वानद्धहेमो- दरनविन महावाडवाग्निप्रभाढ्ये कामं दामोदरीयोदरस- लिलनिधौ चित्तमत्स्यश्चिरं नः ॥ २५ ॥ नाभीनालीक- मूलादधिकपरिमलोन्मोहितानामलीनां माला नीलेव