पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररलाकरे - लसति समया बालिका मातरं नः ॥ ४२ ॥ रूक्षमा- रेक्षुचापच्युतशरनिकरक्षीणलक्ष्मीकटाक्षप्रोत्फुल्लत्पद्ममा- लाविलसितमहितस्फाटिकेशानलिंगम् । भूयाद्भूयो विभू- त्यै मम भुवनपतेर्भूलताद्वंद्वमध्यादुत्थं तत्पुंडूमूर्ध्वं जनि- मरणतमःखंडनं मंडनं च ॥ ४३ ॥ पीठीभूतालकांते कृतमुकुटमहादेवलिंगप्रतिष्ठे लालाटे नाट्यरंगे विकटतर- तटे कैटभारेश्वराय । प्रोद्वाट्यैवात्मतंगीप्रकटपटकुटीं प्रस्फुरंत स्फुटांगं पट्टीयं भावनाख्यां चटुलमति नटी नाटिकां नाटयेन्नः ॥ ४४ ॥ मालालीवालिधाम्नः कुवल- यकलिता श्रीपतेः कुंतलाली कालिंद्यारुह्य मूर्ध्नो गलति हरशिरः स्वर्धुनीस्पर्धया नु । राहुर्वा याति वक्रं सकल- शशिकलाभ्रांतिलोलांतरात्मा लोकैरालोच्यते या प्रदि- शत्रु सकल: साखिलं मंगलं नः ॥ ४५ ॥ सुप्ताकाराः प्रसुप्ते भगवति विबुधैरव्यदृष्टस्वरूपा व्याप्तव्योमांतराला- स्तरलरुचिजलारंजिताः स्पष्टभासः । देहच्छायोद्गमाभा रिपुवपुरगुरुलोषरोषाग्निधूम्याः केशाः केशिद्विषो नो वि- दधतु विपुलक्लेशपाशप्रणाशम् ॥४६॥ यत्र प्रत्युप्तरत्नप्र- वरपरिलसद्भूरिरोचिःप्रतानस्फूर्त्या मूर्तिर्मुरारेर्छुमणिशत- चितव्योमवहुर्निरीक्ष्या । कुर्वत्पारेपयोधि ज्वलदकृत महा- भास्वदौर्वाग्निशंकां शश्वन्नः शर्म दिश्यात्कलिकलुषत- मःपाटनं तत्किरीटम् ॥ ४७ ॥ भ्रांवा भ्रत्वा यदंतस्त्रि- भुवनगुरुरप्यब्दकोटीरनेका गंतुं नांतं समर्थो भ्रमर इव