पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुम्तोत्राणि | मु जगति नो सर्वगतता ॥ ८ ॥ विलोक्याजं द्वार्गे कपट- लघुकायं सुररिपुर्निपिद्धोपि प्रादादसुरगुरुणात्मीयमखि- लम् । प्रसन्नस्तद्भक्त्या त्यजसि किल नाद्यापि भवनं बले- भक्ताधीन्यं तव विदितमेवामरपते ॥९॥ समाधावासक्तं नृपतितनयैर्वाक्ष्य पितरं हतं बाणै रोषागुरुतरमुपादाय परशुम् । विना क्षत्रं विष्णो क्षितितलमशेषं कृतवतोऽस- कृत्कि भूभारोद्धरणपटुता ते न विदिता ॥१०॥ समारा- ध्योमेशं त्रिभुवनमिदं वासवमुखं वशे चक्रे चक्रिन्नगण- यदनीशं जगदिदम् । गतोऽसौ लंकेशस्त्वचिरमथ ते बाण- । विषयं न केनाप्तं त्वत्तः फलमविनयस्यासुररिपो ॥११॥ क्वचिद्दिव्यं शौर्य क्वचिदपि रणे कापुरुषता क्वचिद्गीताज्ञानं क्वचिदपि परस्त्रीविहरणम् | क्वचिन्मृत्स्त्रा शित्वं क्वचिदपि च वैकुंठविभवश्चरित्रं ते नूनं शरणद विमोहाय कुषि- याम् ॥ १२ ॥ न हिंस्यादित्येतहुवमवितथं वाक्यमबु- धैरथाप्नीषोमीयं पशुमिति तु विप्रैर्निगदितम् । तवैतन्ना- स्थानेऽसुरगणविमोहाय गदतः समृद्धिनचानां नय- कर हि दुःखाय जगतः ॥ १३ ॥ विभागे वर्णानां निग मनिचये चावनितले विलुप्ते संजातो द्विजवरगृहे शंभल- पुरे । समारुह्याश्वश्वं लसदसिकरो म्लेच्छनिकरान्निहंता- स्युन्मत्तान्किल कलियुगांते युगपते ॥ १४ ॥ गभीरे कासारे जलचरवराकृष्टचरणो रणेऽशक्तो मज्जन्नभयद जलेऽचिंतयदसौ । यदा नागेंद्रस्त्वां सपदि पदपाशादप- लु