पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे गतो गतः स्वर्ग स्थानं भवति विपदां ते किमु जनः ॥ १५ ॥ सुतैः पृष्टो वेधाः प्रतिवचनदानेऽप्रभुरसावथा- त्मन्यात्मानं शरणमगमत्त्वां त्रिजगताम् । ततस्तेऽस्ता- तंका ययुरथ मुदं हंसवपुषा त्वया ते सार्वज्ञ प्रथितमम- रेशेह किमु नो ॥ १६ ॥ समाविद्धो मातुर्वचन विशिखै- राशु विपिनं तपश्चक्रे गत्वा तव परम तोषाय परमम् । ध्रुवो लेभे दिव्यं पदमचलमल्पेऽपि वयसि कि मस्त्यस्मिँ- ल्लोके त्वयि वरद तुष्टे दुरधिगम् ॥ १७ ॥ वृकाद्धीतस्तूर्ण स्वजनभयभित्वां पशुपतिभ्रमँल्लोकान्सर्वाञ्शरणमुपया- तोऽथ दनुजः । स्वयं भस्मीभूतस्तव वचनभंगोद्गतमती रमेशाहो माया तव दुरनुमेयाऽखिलजनैः ॥१८॥ हृतं दै- त्यैवाऽमृतघटम जय्यैस्तु नयतः कटाक्षैः संमोहं युवतिव- रवेषेण दितिजान् । समग्र पीयूषं सुभग सुरपूगाय ददतः समस्यापि प्रायस्तव खलु हि भृत्येष्वभिरतिः ॥ १९ ॥ समाकृष्टा दुधैर्दुपदतनयाsलब्धशरणा सभायां सर्वात्म स्तव शरणमुच्चरुपगता | समक्षं सर्वेषामभवदचिरं चीर- निचयः स्मृतेस्ते साफल्यं नयनविषयं नो किमु सताम् ॥२०॥ वदंत्येके स्थानं तव वरद चैकुंठमपरे गवां लोकं लोकं फणिनिलयपातालमितरे | तथान्ये क्षीरोदं हृदय- नलिनं चापि तु सतां न मन्ये तत्स्थानं त्वहमिह च यत्रा- सिन विभो ॥ २१ ॥ शिवोऽहं रुद्राणामहममरराजो दि