पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि | विषदां मुनीनां व्यासोऽहं सुरवर समुद्रोऽस्मि सरसाम् । कुबेरो यक्षाणामिति तव वचो मंदमतये न जाने तज्जातं जगति ननु यन्नासि भगवन् ॥ २२ ॥ शिरो नाको नेत्रे शशिदिनकरावंबरमुरो दिशः श्रोत्रे वाणी निगमनिकरस्ते कटिरिला । अकूपारो बस्तिश्चरणमपि पातालमिति वै स्वरूपं तेऽज्ञात्वा नृतनुमवजानंति कुधियः ॥ २३ ॥ श- रीरं वैकुंठं हृदयनलिनं वाससदनं मनोवृत्तिस्तार्क्ष्यो म तिरियमथो सागरसुता । विहारस्तेऽवस्थात्रितयमसवः पार्षदगणो न पश्यत्यज्ञा त्वामिह बहिरहो याति जनता ॥ २४॥ सुघोरं कांतारं विशति च तडागं सुगहनं तथोत्तुंगं शृंगं सपदि च समारोहति गिरेः । प्रसूनार्थं चेतोंबुजम- मलमेकं त्वयि विभो समर्थ्याज्ञस्तूर्ण बत न च सुखं विं- दति जनः ॥ २५ ॥ कृतैकांतावासा विगतनिखिलाशा: शमपरा जितश्वासोच्छ्वासाचुटितभवपाशाः सुयमिनः । परं ज्योतिः पश्यंत्यनघ यदि पश्यंतु मम तु श्रियालिष्टं भूयान्नयनविषयं ते किल वपुः ॥२६॥ कदा गंगोत्तंगाम- लतरतरंगाच्छपुलिने वसन्नाशापाशादखिलखलदाशाद- पगतः । अये लक्ष्मीकांतांबुजनयन तातामरपते प्रसीदेत्या- जल्पन्नमरवर नेष्यामि समयम् ॥ २७ ॥ कदा शृंगैः स्फीते मुनिगणपरीते हिमनगे डुमावीते शीते सुरमधु- रगीते प्रतिवसन् । क्वचिड्यानासक्तो विषयसुविरक्तो भव- हरं स्मरस्ते पादाजं जनिहर समेष्यामि विलयम् ॥२८॥