पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररलाकरे - सुधापानं ज्ञानं न च विपुलदानं न निगमो न यागो नो योगो न च निखिलभोगोपरमणम् । जपो नो नो तीर्थ व्रत- मिह न चोग्रं त्वयि तपो विना भक्तिं तेऽलं भवभयविना- शाय मधुहन् ॥२९॥ नमः सर्वेष्टाय श्रुतिशिखरदृष्टाय च नमो नमोऽसंश्लिष्टाय त्रिभुवननिविष्टाय च नमः । नमो विस्पष्टाय प्रणवपरिभृष्टाय च नमो नमस्ते सर्वात्मन्पुनरपि पुनस्ते मम नमः ॥३०॥ कणान्कश्चिद्वृष्टेर्गणननिपुणस्तूर्ण- मवनेस्तथाशेषान्पांसूनमित कलयेच्चापि तु जनः । नभः पिंडी कुर्यादचिरमपि चेञ्चर्मवदिदं तथापीशासौ ते कलयि- तुमलं नाखिलगुणान् ॥३१॥ व माहात्म्यं सीमोज्झितम- विषयं वेदवचसां विभो ते मे चेतः क्व च विविधतापाह- तमिदम् | मयेदं यत्किचिद्गदितमथ बाल्येन तु गुरो गृहा- शैतच्छुद्धार्पितमिह न हेयं हि महताम् ॥ ३२ ॥ इति हरि- स्तवनं सुमनोहरं परमहंसजनेन समीरितम् । सुगमसुन्द- रसारपदास्पदं तदिदमस्तु हरेरनिशं मुदे ॥ ३३ ॥ गदार- थांगांबुजकंबुधारिणो रमासमाश्लिष्टतनोस्तनोतु नः | बिले- शयाधीशशरीरशायिनः शिवं स्तवोऽजत्रमयं परं हरेः ॥३४॥ पठेदिमं यस्तु नरः परं स्तवं समाहितोघौघघनप्रभं- जनम् । स विंदतेऽनाखिलभोगसंपदो महीयते विष्णुपदे ततो ध्रुवम् ॥ ३५ ॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्द विरचितं श्रीविष्णुमहिम्नः स्तोत्रं संपूर्णम् ॥ ८० क