पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे ततं हि लोके तस्मा० ॥ ६ ॥ नीचोऽपि पापवलितोऽपि विनिंदितोऽपि ब्रूयात्तवाहमिति यस्तु किलैकवारम् । तं यच्छसीश निजलोकमिति व्रतं ते तस्मा० ॥ ७ ॥ वेदेषु धर्मवचनेषु तथागमेषु रामायणेऽपि च पुराणकदंबके वा । सर्वत्र सर्वविधिना गदितस्त्वमेव तस्मा० ॥ ८ ॥ इति श्रीपरमहंसस्वामिब्रह्मानंदविरचितं श्रीहरिशरणा- टकं संपूर्णम् || ३२. श्रीदीनबंध्वष्टकम् । श्रीगणेशाय नमः ॥ यस्मादिदं जगदुदेति चतुर्मुखाद्यं यस्मिन्नवस्थितमशेषमशेषमूले | यन्त्रोपयाति विलयं च तमस्तमंते दृग्गोचरो भवति मेऽद्य स दीनबंधुः ॥ १ ॥ चक्रं सहस्रकरचार करारविंदे गुर्वी गदा दरवरश्च विभा ति यस्य । पक्षींद्रपृष्ठपरिरोपितपादपद्मो दृग्गोचरो० ॥२॥ येनोद्धृता वसुमती सलिले निमझा नझा च पांडववधूः स्थगिता दुकूलैः । संमोचितो जलचरस्य मुखाद्गजेंद्रो दृ- ग्गो० ॥ ३ ॥ यस्याईदृष्टिवशतस्तु सुराः समृद्धिं को पे- क्षणेन दनुजा विलयं व्रजंति । भीताश्चरंति च यतोऽर्क- यमानिलाद्या दृग्गो० ॥ ४ ॥ गायंति सामकुशला यमजं मखेषु ध्यायति धीरमतयो यतयो विविक्ते । पश्यंति योगिपुरुषाः पुरुषं शरीरे दृग्गो० ॥ ५ ॥ आकाररूपगुण-