पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि | . योगविवर्जितोऽपि भक्तानुकंपननिमित्तगृहीतमूर्तिः । यः सर्वगोऽपि कृतशेषशरीरशय्यो दृग्गो० ॥ ६ ॥ यस्यांत्रि- पंकजम निद्रमुनींद्र वृंदैराराध्यते भवदवानलदाहशांयै । सर्वापराधमविचित्य ममाखिलात्मा दृग्गो० ॥ ७ ॥ यन्ना- मकीर्तनपरः श्वपचोऽपि नूनं हित्वाखिलं कलिमलं भुवनं पुनाति । दुग्ध्वा ममाघमखिलं करुणेक्षणेन इग्गो० ॥८॥ दीनबंध्वष्टकं पुण्यं ब्रह्मानंदेन भाषितम् | यः पठेत्प्रयतो नित्यं तस्य विष्णुः प्रसीदति ॥ ९ ॥ इति श्रीपरमहंसस्वा- मिब्रह्मानंदविरचितं श्रीदीनबंधवष्टकं संपूर्णम् ॥ ३३. श्रीगोविंदाष्टकम् । श्रीगणेशाय नमः ॥ चिदानंदाकारं श्रुतिसरससारं सम- रसं निराधाराधारं भवजलधिपारं परगुणम् । रमाग्रीवा- हारं व्रजवनविहारं हरनुतं सदा तं गोविंदं परमसुख- कंदं भजत रे ॥ १ ॥ महांभोधिस्थानं स्थिरचरनिदानं दिविजपं सुधाधारापानं विहगपतियानं यमरतम् । मनोज्ञं सुज्ञानं मुनिजन निधानं ध्रुवपदं सदा० ॥ २ ॥ धिया धीरै ध्येयं श्रवणपुटपेयं यतिवरैर्महावाक्यैज्ञेयं त्रिभुवन- विधेयं विधिपरम् | मनोमानामेयं सपदि हृदि नेयं नव- तनुं सदा० ॥ ३ ॥ महामायाजालं विमलवनमालं मल- हरं सुभालं गोपालं निहतशिशुपालं शशिमुखम् । कला