पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि | प्रण० ॥ २ ॥ मुनिवृंदहृदिस्थ पदं सुपदं निखिलाध्वरभा- गभुजं सुभुजम् । हृतवासवमुख्यमदं विमदं प्रम० ॥३॥ हृतदानवहतबलं सुबलं स्वजनास्तसमस्तमलं विमलम् । समपास्तगजेंद्रदरं सुदरं प्रण० ॥ ४ ॥ परिकल्पितसर्व कलं विकलं सकलागमगीतगुणं विगुणम् । भवपाशनिराकरणं शरणं प्रण० ॥ ५ ॥ मृतिजन्मजराशमनं कमनं शरणागत- भीतिहरं दहरम् । परितुष्टरमाहृदयं सुदयं प्रण० ॥ ६ ॥ सकलावनिबिंबधरं स्वधरं परिपूरितसर्वदिशं सुदृशम् । गतशोकमशोककरं सुकरं प्रण० ॥७॥ मथितार्णवराजरसं सरसं ग्रथिताखिललोकहृदं सुहृदम् । प्रथिताद्भुतशक्ति- गणं सुगणं प्रम० ॥८॥ सुखराशिकरं भवबंधहरं परमा- ष्टकमेतदनन्यमतिः । पठतीह तु योऽनिशमेव नरो लभते खलु विष्णुपदं स परम् ॥ ९ ॥ इति श्रीपरमहंसस्वामि- ब्रह्मानंदविरचितं श्रीरमापत्यष्टकं संपूर्णम् || ३५. कमलापत्यष्टकम् । श्रीगणेशाय नमः । भुजगतल्पगतं घनसुंदरं गरुडवा- हनमंबुजलोचनम् | नलिनचक्रगदाकरमव्ययं भजत रे मनुजाः कमलापतिम् ॥ १ ॥ अलिकुलासितकोमलकुं- तलं विमलपीतदुकूलमनोहरम् । जलधिजाश्रितवामक- लेवरं भजत० ॥ २ ॥ किमु जपैश्च तपोभिरुताध्वरैरपि