पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे 43 किमुत्तमतीर्थ निषेवणैः । किमुत शास्त्रकदंबविलोकनैर्भ- जत० ॥ ३ ॥ मनुजदेहमिमं भुवि दुर्लभं समधिगम्य सुरैरपि वांछितम् | विषयलंपटतामपहाय वै भजत० ॥ ४ ॥ न वनिता न सुतो न सहोदरो नहि पिता ज ननी न च बांधवः । व्रजति सामनेन जनेन वै भजत ० ॥ ५ ॥ सकलमेव चलं सचराचरं जगदिदं सुतरां धन- यौवनम् । समवलोक्य विवेकशा द्रुतं भजत० ॥ ६ ॥ विविधरोगयुतं क्षणभंगुरं परवशं नवमार्गमलाकुलम् | परिनिरीक्ष्य शरीरमिदं स्वकं भजत० ॥ ७ ॥ मुनिवरैर- निशं हृदि भावितं शिवविरिंचिमहेंद्रनुतं सदा । मरण- जन्मजराभयमोचनं भजत० ॥ ८ ॥ हरिपदाष्टकमेतद- नुत्तमं परमहंसजनेन समीरितम् । पठति यस्तु समाहि- तचेतसा व्रजति विष्णुपदं स नरो ध्रुवम् ॥ ९ ॥ इति श्रीमत्परमहंस स्वामिब्रह्मानंदविरचितं कमलापत्यष्टकं. ८८ समाप्तम् ॥ ३६. संकष्टनाशनविष्णुस्तोत्रम् | श्रीगणेशाय नमः ॥ नारद उवाच । पुनदैत्यं समायांतं दृष्ट्वा देवाः सवासवाः | भयप्रकंपिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ॥ १ ॥ देवा ऊचुः । नमो मत्स्यकूर्मादिनाना- स्वरूपैः सदा भक्तकार्योद्यतायार्तिहंत्रे | विधानादिसर्ग-