पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१११

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३
त्रिपुरदाहो डिमः


 सर्व०--( श्रुत्वा सक्रोधम्)अयि पापाः!किमेवं भवद्भिरुदूघुप्यते । तथाहि----

सोऽयं पतङ्गाद्दहनस्य भङ्गो
 दावानलादेप समुद्रशोपः ।
गरुत्मतो राजिलतः क्षयोऽयं
 यच्चन्द्रतः सीदति चन्द्रतापः ॥ १५ ॥

( पुनर्नेठये सगर्वम्)

निवसति वडवाग्निर्यत्र सायामधामा
 विहरति च महोप्मा यत्र हालाहलीयः ।
मयि शशिनि सरोषे मद्रुरोस्तस्य वार्द्धेः
 कुरु शारणगतस्त्वं चन्द्रतापात्मरक्षाम् ॥ १६ ॥

 सर्व०-विशदाशय ! मम ज्ञातेर्विधुन्तुदस्य भक्ष्योऽयं, तदेनं भक्षयतो मम न दोपोऽस्ति । फवलयाम्येनम् ।

 विश०--( सप्रश्रयम्) अयि दानवेश ! भवानेनं कवलयतु । भवन्निदेशेन राहुरेव वा बाढमपुनर्भवाय कवलयतु । किंतु चन्द्रतापसमीपं प्रहितः प्रतीक्ष्यतां स्फुटाक्षरः ।

( ततः प्रविशति स्फुटाक्षरः )

 स्फुटा०-(सखेदम् ) अहह ! विहिविवरीददाए वैभवंपि विघरीदफलं भोदि । तंप्येव चंदतावनअरस्स रुप्यमयं पाआरं रुप्पमआइं सोहाइं एदत्सि तुसारअरसमरम्मि अइतुसारदाए अणत्थहलं संवुत्तं [१]

 सर्व०--(स्फुटाक्षरं दृष्ट्वा सप्तम्भ्रमम्) अयि दौवारिकाः ! प्रेतः कोऽप्ययं मामभ्युपैति ।

 स्फुटा०--(प्तावेगम्) अपि णाह ! णहु णहु अहं पेदो भूओ वेआलो वा । अहं फुडक्सरो देवस्स चरो चंदताववुत्तन्तं णिरूविदं गुदोम्हि । तं उण मह अवत्थाए य्पेव विन्नत्तं """"""""" ए सिसिरेण समरो दिट्टो । ण कआचि मए एआरिसो तुसारसंभवो अणुभूदो । ता किंपि परित्ताणं करेदु दाणवणाहो ।[२]


  1. अहह ! विधिविपरीततया वैभवमपि विपरीतफलं भत्रति ! तदेव चन्द्रतापनगरस्य रूप्यमयः प्राकारः रूप्यमयानि सौधानि एतस्मिन् तुपारकरसमरे तुपारतया अनर्थफलं संवृत्तम् ।
  2. अयि नाथ ! न खलु न खलु अहं प्रेतो भृतो येतालो वा । अहं स्फुटाश्क्षरो देवस्य चरक्ष्चद्रधन्द्रतापवृत्तान्तं निरूपयितुं गतोऽस्मि । तन् पुनः मम अवप्ययैव विज्ञप्तम्'*****शिशिरेण समरो द्ष्टः । न कदापि मया एतादृशः तुपारसम्भवोऽनुभूतः । तत्किमपि परित्राणं करोतु दानवनाथः ।