पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/११७

एतत् पृष्ठम् परिष्कृतम् अस्ति
चतुर्थोऽङ्कः


(नेपथ्ये)

प्रस्मरमयूरविशिखः सृर्यः संहरति चैरितिमिरौघम् ।
नहि यस्य स्थरयद्धर्या दृरमदृरं किमप्यस्ति ॥ १ ॥

 विश०-(श्रुत्वा प्रतिबुध्य ) कथमायातं प्रभातम् । आः ! केनेंमां प्रातरेव दुरूपश्रुतिं श्रावितोऽस्मि । अथवा स्तवमुखः कोपि दे""""""""""""""""""""""""""" तत् । तदहं गत्वा गुरोर्मगवतो भार्गवस्य पादारविन्दवन्दनां विदधे । (परिक्रम्य पुरोऽवलोक्य ) अयमस्ति भगवान्भार्गवः """"""""रेनमन्तरपद्रव्यदुराभाकरम्वितं स्फटिकमिव कश्मलमवलोकयामि (सहसोपसृत्य ) भगवन्मार्गव! एप त्वां""""""" ऽभिवादयते ।

 शुक्रः--सौम्य ! चिराय जीव ।

 विश'----(प्तप्रश्रयम् ) किं पुनरघ भगवन्तमन्याशमिव विभावयामि ।

 शुक्रः'--(सखेदम् ) अयि विशदाशय ! दुःस्वप्नदर्शनोपनीतवैमनस्येन मलिनीकृतोऽस्मि । तदहमिदानी किमपि शान्तिकमनुष्ठातुं यतिष्ये ।

(नेपथ्ये)

अस्मत्पुण्यप्रकर्षेण पांडशाप्येकनां गताः ।
अधुना सद्य एवामी ब्रयो यास्यन्ति पञ्चताम् ॥२॥

 विश-( आकर्ण्य) केयमाकाशसरस्वत्या प्रहेलिकेचोदाह्टता।

 शुक्रः-- क्षणमिव ध्यानं नाटयित्वा ) वत्स विशदाशय ! नेयमाकाशसरस्वती ब्याहरति । चित्रशिग्वण्डिनोऽमी त्रिपुरासुरोत्तापितास्तद्विनाशायोल्महन्ते । विवेचितं मया महेशममुग्या दिगिशा हरिविरिञ्चिक्रौञ्चारिनगेन्द्रनागेन्द्रचन्द्रसूर्यधर्माः पोडशापि त्रिपुरासुरवधाय बद्धकक्षाः संवृत्ता ऐक्यं गनाः ।

 विश०--(सखेदम्) अहह ! अत्याहितमत्याहितम् ।

 शुक्रः--वत्स विशदाशय ! अकथनं दुःस्वप्नानां श्रेयस्लदिदानी मुनिवचनेन मुम्बरीकृतोऽस्मि । आकर्णयतु भवान् ।