पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
वत्सराजप्रणीनरूपकसङ्ग्रहे


 महेशः(पुरोऽवलोक्य साश्चर्यम् ) आः पश्यत पश्यत ।

सौवर्णं पुरमभ्युपैति निकटं यस्योत्कटैरंशुभिः
 संवीतं वियदङ्गणं तुलयति स्यर्णाचलोपत्यकाः ।

 विष्णुः-(साक्ष्चर्यम्)

गङ्गाडम्बरकारि कान्तिपटलं तत्पृष्टतो राजतं

 ब्रह्मा--(साक्ष्चर्यम्)

प्रत्यग्राम्बुदवृन्दविभ्रमकरं लौहं तदीयान्तिके ॥ ११॥

 महेशः-अहो दानवानां शौर्यमदमोहितानां बुद्धिविपर्ययो यदमी स्वयमेवैकशरशरव्यतां प्रतिपद्यन्ते ।

 विष्णुः-( सवितर्कम्) कथं नु ते शुक्रसचिवा एवं विमुह्यन्ति । नृनमन्यैव सा क्कचिदस्ति सत्या पुरत्रयी । इयं पुनरन्यैव ।

( ततः प्रविशति सौवर्णेन पुरेण विहरन्सपरिवार प्तर्वतापः )

 सर्वतापः--{प्तगर्वरोपम्) आर्य विशदाशय ! पश्य पश्य देवानां दुविनयं यदियमस्मत्प्रतियोगिनी अपरा पुरत्रयी निर्मिता । गच्छ रे स्फुटाक्षर । गच्छ । आनय सूर्यतापचन्द्रतापौ सपुरौ । दुह्यतामियं देवनिर्मिता॒ पुरञ्नयी ।

 स्फुटा०-(पुरोऽवलोक्य)कधं आगद्य्येवसुज्जतावचंदतावा । पेक्खदु देयो[१]

 सर्व०--( दृप्टा सहर्णम् ) साधु साधु एताभ्यामपि दृष्टैव मायामयी त्रिपुरी ।

 विश०-(साकृतं विहस्य) दैत्यनाथ ! किमाकुलोसि? । निवर्तय पुरत्रयम् ।

 सर्व०-( सक्रोधम् ) अहो भवतः साचिव्यम् । द्वितीया पुरत्रयी योद्धुमभ्येति । त्वं च विहससि ।

( विशदाशयः सौत्सुक्यमुत्थाय कर्णे एवमेवेति)

 सर्व०-(सक्रोधम्) आः ! किमनेन मृपा कर्णजापेन । को विम्चसिति भवतां देवतानुगतमुनिकुलोत्पन्नानां द्विजन्मनाम् । यघेवं किमिति मामसम्भाष्यैव शुक्रो गतः । एवंकृते किमस्मान्सृपकृतं, प्रत्युतापकृतमेव । तथाहि-----

पुरत्रयं दाहयिता शिवेन
 निर्माय मायामयि चेत्स शुक्रः ।


  1. कथमागतावेव प्तूर्यतापचन्द्रतापौ । प्रेक्षतां देक ।