हास्यचूडामणिः प्रहसनम्
कल्याणं वितरन्तु वः पृथुजटाजूटाग्रविस्तारिण- |
अपि च--
भूयिष्ठाः परिरम्भकेलिपु भुजाः सोत्कण्ठमालोकने |
(नान्द्यन्ते )
सूत्रधारः-( नभोऽवलोक्य ) अये विभातैव शर्वरी । (प्रतीचीमवलोक्य ) अहह । समय एव सर्व[१] शोभते | तथाहि--
नवविचकिलमालामांसलैर्यैस्तदानीं |
अये !तन्ममापि जरापराधोनस्य हास्यकर एवायं नाट्याभियोगः ।
( प्रविश्य )
पारिपार्श्वकः-भाव ! हासोय्येव अज्च रमणिज्जो जं एस नीलकंठजत्तामहूसवसमागादेर्हि विअड्रसामाजिएहिं परिअरिदो राआ परमङ्डिएवो अच्तणो अमच्चेण कविणा वच्छराएण विरइदं हासचूडामर्णिा णाम पहसणं अहिणेदुमादिसदि भवंतं ।
- ↑ भाव ! हास एवाद्य रमणीयो यदेप नीलकण्ठयात्रामहोत्सवसमागतैः विदग्धसामाजिकैः परिचरितो राजा परमर्द्दिदेव आत्मनः कविना वत्सराजेन विरचितं हास्यचूड़ामर्णि नाम प्रइसनमभिनेतुमादिशति भवन्तम् ।