पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३३
हास्यचूड़ामणिः प्रहसनम्


मैहिरोऽयं महःपूरः क्रूरः खलु इवोत्कटः ।
प्रतिकर्त्तुं परं शक्यः सुस्निग्धैः शास्त्रिसज्ज्ञनैः ॥ १ ॥

 तदेहि गच्छावः । ( इति निष्क्रामतः ) ;

 शिष्यः--एदं उज्जणं । पविसदु भवं[१] । ( प्रवेन्नं नाटयत्ः )

 शिष्यः-( कतिचित्पदानि दत्वाऽप्रप्तोऽवलोक्य ) उञ्अज्झाअ ! पेच्छ पेच्छ । इध माधवोमंडवे अव्भुदा कावि इत्थिआ उअज्झाञ्उव्व झाणपराअणा चिट्टदि । अवरावि एदाए पासम्मि देवञ्आपूअत्थं चन्दणकुसुमाइं उव्वहन्ती चिट्टदि[२]

 ज्ञान०-कौण्डिन्य! तदिहैव रक्त्तशोकनले उपविशावः । किं माधवीमण्डपेन । ( इत्युपविशत

 शिष्यः--( विभाव्य स्वगतं साश्चर्योपहासम्)अहो ! उअज्झाओ अहो! उअज्झाओ । सुट्टु खु एसा इहट्टिदेण पुलोईअदि [३] )

( ततः प्रवेिशाति यथानिर्द्दिष्टr मद्नसुन्दरी चेटी च )

 ज्ञान०-( विलोक्य स्वगतम् ) अहो ! रूपसम्पदस्याः । तथाहि-

लावण्यवीचयैस्तरलायताक्षी
 प्रक्षाल्य निष्ठुरविवेकदुरक्षराणि ।
कन्दर्पदैवतमियं सहसोपदेश-
 माविष्करोति हृदि संयमिनो मभापि ॥ २ ॥

 चेटी--भट्टिणि ! ए[४] दं खु तुह अंगपसंगमलहन्तं पिव पच्चाअइ सिप्पिआसमप्पिदं हरिअंदणं । एसा उण चिरसमागअचि तए असंभाविज्जमाणा उआलंभदिव्व तुमं । परिमलमिलन्तरोलंवणिउरुंवमुहलिदा णोमालिआ । एदं


  1. एतदुद्यानं प्रविशतु भमान् ।
  2. उपाव्याय ! प्रेक्षस्व प्रेश्क्षस्व | अत्र माववीमण्डपे अद्भुता कापि स्री उपाध्याय इव ध्यानपरायणातिष्टति । अपराऽपि एतस्या पार्श्वे देवतापूजाथै च चन्दृनकुसुमानि उद्वहन्ती तिष्टति ।
  3. अहो त्तपाध्याय अहो उपाध्यायः । सुष्ठु खलु एपा इहस्थितेन प्रलोक्यते ।
  4. भट्टेिनि! एतत्खलु तवाङ्गप्रसङ्गमलभमानमिव प्रतीयते शुक्तिकासमर्पितं हरिचन्दनम् । एपा पुनक्ष्चिरसमागताञ्जप्रि त्वया असम्भाव्यमाना उपालभत इप त्वां परिमलमिलद्रोलम्वनिफुरन्वमुरपरि-