पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३८
वत्सराजप्रणीवरुपकसङ्ग्रहे


(ततः प्रविशति यथानिर्दिष्टा कपटकेलिः । कपटकेलि: ज्ञानराशेरग्रतः प्रामृतकमुपनीय साफूतं विहस्य सत्रीडमुपविशति)

 ज्ञान-(सगर्वहर्पम् ) अयि भद्रे! अधिगतं तद्रस्तु ? ।

 कपट०-(सोत्कण्ठम् ) सुहअ ! तं लद्ध गदं चत्यु । हिअअं उण मह तए हरिदं ता तुमं य्येव मह सरणं[१]

 ज्ञान०-(स्वगतम्) आः किमेतत् ! । किमियं मदिरारसोन्निद्रितस्मरविकारातिशया ?। तत्किमत्रोत्तरं भवति? अभिमतेन तावद्रिनियोजयामि । (प्रकाशम् ) भद्रे ! अपि कल्याणिनी तव सुता मदनसुन्दरी ।

 कपट०-(सेर्प्यम् ) ण हु ण हु सुदा मे, वहिणिआ खु सा। अहं उण तुम्हारिसविलासिजणपसाएण सुहिदा पिहुलत्तणं पत्ता कणिट्ठा वि अण्णारिसी मुणिज्जामि[२]

 ज्ञान-(स्वगतं सोपहासम् ) अहो ! धाष्टर्यं वृद्धायाः । अथवा युज्यत एवैतत्

वातोत्फुल्लनया नयन्ति समतां निम्नौ कपोलौ मुहु-
 स्तुङ्गत्वाभिनयं वहन्ति कुचयोर्वक्षःस्थलोल्लासनैः ।
पुत्रीभ्योऽपि कनिष्ठतां प्रकटयन्त्याच्छाद्य केशान् सितां-
 स्तारुण्याभिनयग्रहः परिणतौ कोप्येप दुर्योंपिताम् ॥ ६ ॥

 कपट०-(सोत्कण्ठम् ) सुहअ ! मुश्चसु कसाअंव्ररं । अलंकरेमि हरिअंदणेण अङ्गाइं।[३]

 ज्ञान--(स्वगतम् ) अहो ! विकारातिशयो वृद्धायाः । अथवा---

 सोत्कण्ठं सेवितोऽत्यर्थ तारुण्यसमये पुरा ।
 जहाति जरतीः कामो न दाक्षिण्यवशादिव ॥७॥

(प्रकाशम् ) विरम विरम।

 विविधरसविलासोल्लासिनिःसीमपङ्कः-
  प्रचयनियतपातं दूरतस्तं नमामि ।


  1. सुभग ! तलब्धं गवं वस्तु, हृदयं पुनर्मम त्वया हृतं, तत्त्वमेव मे शरणम् ।
  2. न खलु न खलु मुता मे मगिनिका खलु सा । अहं पुनस्त्वाद्दशविलासिगणप्रसादेन मुखिता पृथुलत्वं प्राप्ता कनिष्ठाऽपि अन्याहशी ज्ञाये ।
  3. सुभग! मुञ्च कपायाम्बरम् । मलङ्करोमि हरिचन्दनेनानाङ्गानि ।