पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६४
वत्सराजप्रणीतरूपफसङ्ग्रहे


उज्जृम्भते गङ्गदशव्दता मे
 मन्थक्षमः किन्तु सुसंघृणोति ॥ ३६ ॥

 तत्सावहित्थमावर्त्तयामि तावत् । ( इति मन्दरमावर्त्तयति )

 ब्रह्मा-(व्रिलोफ्य सओफौतुकम् ) महेश ! दृश्यताम् ।

क्रीडति भ्रमरकैरिव नृत्य-
 न्मन्दरः सह सुरासुरसार्थैः ।
शेषपुच्छमुखवाहुयुगस्प
 द्राग्गतागतमनोज्ञविनोदैः ॥ ३७ ॥

 महेशः - (सहर्पाक्ष्चर्यम् ) अहो महत्कौतुकं वर्त्तते ! । तधाहि ---

साटोपसम्पातरयप्रकर्पा-
 दुल्लासिनस्तुङ्गतरङ्गफूटाः ।
हस्ता इव क्त्रोघनदुग्घवार्द्धेः
 पतन्त्पमीं मन्दरशैलमौलौ ॥ ३८ ॥

 वासु०-( आकर्णनाभिनयं कृत्वा ) तिष्ठत तिष्टत क्षणम् । निर्गच्छदिव केिमपि विभाव्यते ।

( सर्वे निश्चला भवन्ति )

 वासु०-( सहर्यकौतुफम् )

कथितकुलिशपातदुनिंमित्त-
 स्फुरदुरुमेघविख्क्षगर्जितान्ते ।
ध्वनिरिव मधुरः कलापियूनः
 सुखयति मन्थरवात्पयश्चरोऽयम् ॥ ३९ ॥

( ततः प्रविशन्ति वेदाः )

 वासु०-(ज्ञानेन प्रत्यभिज्ञाय स्वगतं सहर्षम्) दिष्ट्या नूनममी वेदाः समागताः।

 वलिः-( सप्रक्ष्रयम्) भगवन् जगदीश ! साघारणः प्रभ्रुरसि सुराणामसुराणां च । समानभक्तिव्यवसायेपु च परिजनेपु समानप्रसादाः प्रभवो भवन्तीति विचिन्त्यम् ।

 महेशः-( स्वगतम्) अये विभागलालसा दानया !। अप्रियं च तद्दानवारेस्तदेयं तावत् । ( प्रकाशम् ) अयि दानवेश ! अलमुष्ठुत्सुकनया । किमौचित्यमच्युतात्प्रच्ययते ?। तदयमेव प्रमाणम् ।