पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
द्रितीयोऽङ्कः


( ततः प्रविशति कपटकामिनीवेपो चैकुण्ठः सखीवेपो वैनतेयश्च )

 वैनतेयः-( सहर्षम् ) अपि जनार्द्दन ! सकलजगद्रूपस्य केयं भवतोऽद्रुतरूपनिर्माणनैपुणे क्ष्लाघा ? । अद्य पुनर्यदिदं भवना वनितारूपमाविष्कृतं नहि तद्भवनाप्यनुभूतपूर्वम् । किं पुनरयं पुरुपशून्ये वेलावने निकुञ्जे निरर्थको भवता सफलीकृतमदनप्राक्त्तनसुकृतपरिपाको हेवाकः प्रसार्यते ? । तथाहि-----

दृशोर्द्वन्द्वं खेलत्यलसमलसं कर्णसविधे
 नटन्ती भ्रूवल्ली कुसुमविशिखं वीजयति च ।
मुहुः स्मेरस्मेरं मदयति मुखाम्भोरुहमिदं
 स्वतः क्षोभं यास्सि त्वमपि मुकुरं पश्यसि यदा ॥ १ ॥

 वैकुण्ठः-सखे वैनतेय ! अर्थक्षृङ्गारोऽयमद्भुतो महतेऽर्थाय प्रगल्भते । हेवाकाभिनयं चात्राकस्मिकपुरुपागमनशङ्कया प्रसारयामि ।

 वैन०-( ससम्भ्रमम् ) कथं शब्द इवेह क्षूयते ! । न्नृनमायाति कश्चित् ।

 वैकुण्ठः-( साशङ्कम् ) सखे वैनतेय ! तदितःप्रभृति योपिद्भावाभिनयार्थश्मावाभ्यां प्राकृतभापया तदनुरूपः कृनार्थीकृनकुसुमचापः संलापः क्रियताम् ।

 वैन०-( पत्रान्तरालैरालोक्य अपवारितकेन ) आयात एव सानुचरः कश्चिन्महानुभावः पुरुपविशेप ।

( ततः प्रविशति वलिः कुजम्भश्च )

 वलिः--( सपरितोषम् ) सखे कुजम्भ ! साधु साधु भवता कृर्त, पन्महता नैपुगेन पीयूयमानीोतर्मं । किं पुनः पीयूपं लब्धमप्यलब्धमेव, यन्मया न समासादिता जलधिकन्यावमानिलावण्या कापि कन्या ।

 कुजम्भः--( स्वगतं सजुगुष्सम् ) अहो ! अस्प मदनमोहान्घता, पदयममृतं कामिनीसमागमादधरमवधारयति । ( प्रकाशं सप्रश्रयम्)तदपि न भवतो वळवद्भाग्यस्य वलेर्द्धष्प्रापमवधारयामि ।

 वैकुण्ठः-( स्वगतं सोपहासम्) द्वयमपि दुप्प्रापं भविप्पति ।

 वलिः-सखे कुजम्भ ! किं पुनरितो मृगमदामोदः प्रवर्त्तने ? ।