पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७९
समुद्रमयनाभिधानः समवकारः


 कुजम्भः--(आव्राणमभिनीय साश्चर्यम् ) अयि दानवेश !

नायं विपिनलतानां सहस्रशाःपरिचितो हि तद्गन्घः ।
मृगमदपरिमललहरी पिशुनयति किमप्यधिष्ठानम् ॥ २ ॥

 तदुत्थाय निरूपयामि तावत् । ( तथा कृत्वा सहर्षाश्चर्यम्) दानवेश ! एह्येहि कृतार्थय चक्षुपी । अद्यप्रभृति ते सफलं जन्म ॥ अदृष्टपूर्वं पश्य कन्यारत्नम् ।

( वलिः सोत्कण्ठमुत्तिष्टति )

 वैन०-( अपपार्य ) वैकुण्ठ ! अभिनीयन्तां विप्रलम्भानुभायाः ।

 वैकुण्ठः-( स्वगतम् )

तैस्तैः पूथुक्ष्वसितपाण्डिमतानवाद्यै-
 र्ये विप्रलम्भमभिनेतुमहं समीहे ।
सोऽयं पयोनिधिसुताव्यवधानदुःख-
 सन्धुक्षितो भवति सम्प्रति सत्य एव ॥ ३ ॥

 वैन०-पियसहि मोहणिए ! किं उण अत्ताणं अणवेक्खिय एवं उत्तम्मसि ? । साहेसु मे शिाविणाअदिट्ठ तं सुहअं [१]

 मोहनिका-णिउणिए ! अलं साहिदेण । णहु णहु तेण सारिक्खेण तिहुअणम्मि कोवि अत्थि[२]

 वलिः-( आकर्ण्य सोत्कण्ठम् ) किं पुनरित्धमद्भुतसम्भावनया सुकृती सुदृशा कृतार्थाक्रियते ।

 कुजम्भः-एहि तावत्प्रकटीभवावः ।

( उमावुपमर्पतः )

 निपुणिका--( सहमोत्याय सप्रश्रयम् ) मद्दाभाअ! पणामोभट्टिदारिआए [३]

 वलिः--{ सगन्दम् ) अभिलपितमासादयतु भवद्भर्तृदारिका ।

 वैकुण्ठः-( स्वगदम्) गद्भदगलिताक्षरापि सम्पूर्णेयमुपश्रुतिर्भविष्यति ।


  1. प्रियसखि मोहनिके ! किं पुनरात्मानमनपेक्ष्य एवमुत्ताम्यसि ? । साघय मे स्वप्नदृष्टं तं सुभगम् ।
  2. निपुणिके ! अलं साधितेन । न खलु न खलु तेन सदृक्षो न कोऽपि त्रिमुवनेऽस्ति ।
  3. मद्दामाग ! प्रणामो भतृद्वारिकायाः ।