पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८०
वत्सराजप्रणीतरूपकसङ्ग्रहे

 कुजम्भः- ( उत्तरीयमासनवत्कृत्वा ) इदमलङ्करोतु दानवेन्द्रः ।

 वलिः--( उपविश्य सहपोंत्क्रठं स्वगतं साश्चर्य )

अनुभूतपूर्वमित्थं स्त्रीरत्नं न खलु वेधसः शिल्पे ।
मदनस्य भुवनजयिनः शाक्त्तिमीयामयी किमियं ? ॥

 (प्रकाशं सखीरूपं वैनतेयं प्रति) भद्रे ? केयं भवद्भर्तृदारिका ? । किं निमितमुत्ताम्यति ? ।

 निपुणिकावेपो वैनतेयः-महाभाअ ! एसा खु कमलाए कणिट्ठा समुद्ददुहिदा ! जदोपहुदि इमीए कोवि अब्भुदरूवो सुहओ सिविणए' पुलोइदो तदोपहुदि अव्भंतरविअंभमाहुड्डामरवेअणाए णिविडविलयावगुण्ठणा किलम्मदि । परं परमसाहसिअव्च ण वीहेदि मरणादो अण्प्गहा--

अग्याइ करुणअं का झंपइ का मलयगंधवाहम्मि ।
का जीविए सअण्हा कलअंठकुहूझुणिं सुणाइ

[१] ॥ ४ ॥

 ( साकृतरिमतम्) संपइ उण तुम्हाण दंसणादो पहुदि किंपि किंपि आसर्त्ति व विहावेमि । का मुणेदि अत्थि तुम्हाण सिविणयदिट्ठसारिक्खं ण वेति[२]

( निपुणिकावेपं वैनतेयं तर्जयन्निव तिर्यगवलोकनैः सव्रीडमधोमुखं तिष्टति )

 वलिः-( सौत्सुक्यं सोत्कण्ठम्)--

मामनुगृहाण मुग्घे ! दृक्पातैरमृतपाटवग्रहिलैः ।
जीवितमजीवितं मे सम्प्रति सुभ्रु ! त्वदायत्तम् ॥ ५ ॥

(पैकुण्ठः अवाड्मुख एव सस्मितं पश्यति )

 वलिः-( सहपोंत्कण्ठ म् ) ---

लोचनसरोजमाला प्रेमगुणेनेयमद्भुता ग्रथिता ।
विक्ष्राम्यति मयि दिष्टया सुतनोः संवरणमालेय ॥ ६ ॥


  1. मद्दाभाग ! एषा खलु कनिष्टा समुद्रदुहिता यतः प्रमृति अनया कोऽपि अद्भुतरूपः सुभगः स्वने दृष्टः ततः प्रभृति अभ्यन्तरविजृम्भमाणदाहोट्टामरवेदनया निविडविलयावगुण्ठना क्काम्यति । परं परमसाहसिकेव न बिभेति मरणात् । अन्यथा-

    उर्घादि करुणकं का झम्पति का मलयगन्धवाहे ।
    का जीविते सनृष्याा कलकण्ठहूध्वर्नि शृटणोति ॥

  2. सम्प्रति पुनः युष्प्नाकं दर्शनाव्प्रमृति किमपि किमपि आसर्क्त्ति विभावयामि । का ज्ञानीते अस्ति युप्माकं स्वप्नदृष्टसादृश्यमस्ति न वेति ।