पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८५
समुद्रमथनाभिघानः समवकारः


 शुक्रः-(अग्निस्तम्भमन्त्राभिनयं कृत्वा साश्चर्यम्) अहह ! ।

विशालफालैः प्रसभं प्रसर्प्प-
 न्नग्रग्रतो इम्पति तीव्रतेजाः ।
न मन्यते मन्त्रमयं प्रयोगं
 वीरव्रताविष्ट इवैप वह्निः ॥ १४ ॥

(विमृश्य )

अपि लपसमयोत्थे वीतिहोत्रे प्रयुक्ता
 नहि नहि विमुखीस्याद्भार्गवी मन्त्रशक्तिः ।
सततमसुरवंशध्वंसवद्धावधानः
 क्कचिदपि तदिहास्ति फ्रोधनः कैटभारिः ॥ १५ ॥

 तन्निरूपयामि ध्यानेन । (ध्यानाभिनयं कृत्वा स्वगतम्) अहह !! मुरारिरयं महिलारूपस्तत्सम्प्रवृत्तस्नावदनर्थः । किमद्यापि भयेन ? । ( प्रकाशं सगर्योपहासम् ) वैकुण्ठ ! वैकुण्ठ ।

धिग्धिग्सुधां वार्द्धिविलोटनोत्थां
 घिग्घिफ् च तहुर्लभवस्तुजातम् ।
किन्नाम नाप्तं दनुजप्रवीरै -
 र्वैकुण्ठ ! यत्त्वं महिलीकृनोऽसि ॥ १६ ॥

 वैकुण्ठः-( सोपदासं मद्दिलारूपं परित्यज्य ) भार्गव ! त्चमेव नयमार्गे निपुणाः । किमित्थं व्याहरसि ? ।

 वैनतेयः- ( स्रीरूपं परित्यज्य सोपहासम्) दैत्याचार्य ! साघयामस्नावत् । त्वमपि गत्वा दैत्यैः सहाग्रासनीभवामृतप्राशनमहोत्सवे ।

( इति निप्कान्ता सर्वे )

द्वितीयोऽङ्कः