पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९१
समुद्रमथनाभिधानः समवकारः


( निधानानि तथा युर्वन्ति )

 समुद्रः-अङ्गीकरोतु सकलजगदाह्लादकारिणीं वारुणीं कृताहितविनाशं पाशं च वरुणः ( वरुणस्तथा करोति )

 समुद्रः-अङ्लुशं महायुधमादाय प्रगल्भतां रिपुवंशविशसने निरङ्कशो गन्धवाहः ( वायुस्तथा करोति )

 समुद्रः-कलयतु जगद्रक्षापरायणं कौणपनायकः कृपाणम् । ( निर्त्र्क्षतिस्तथा करोति )

 समुद्रः-भवतुच सकलजगत्प्राणशमनः शमनोऽमुना दण्डेन चण्डतरः ।

( यमः सहर्पमुत्यायादण्डमादत्ते )

 समुद्रः-विपमुररीकृत्य दुर्द्धर्पतरा भवन्तु वासुकिप्रमुखा ' महोरगाः विपमतरमिदं च ।

( वासुकिः सहर्पमुत्थाय विपमादत्ते )

 समुद्रः-सर्वदेवमुखमुपर्बुधमधितिष्ठतु पीयूपम् । एतत्प्राशनेन भवन्तु निर्जरा अमराः सुराः । ( पीयूषं वह्निमाश्रयति )

 समुद्रः-(सहर्पोल्लासम् ) अयि भगवन्पीयूपमयूखशेखर !

अद्य त्वया प्रमथनाथ ! कृतः कृतार्थो
 मन्थोपमर्द्दमहमुत्सवमेव मन्ये ।
द्रव्याण्यमूनि वितरन्नमरार्थिसार्थे
 यद्दातृतामुपगतोऽस्मि किमन्यदीहे ॥ १३ ॥

 तथापीदमस्तु -----

औदार्यशौर्यरसिकाः सुखयन्तु भूषाः
 सन्मार्गवासितधिपो विलसन्तु लोकाः ।
वर्पन्तु यद्धपरितोपभराः पयोदाः
 सारस्वतोत्सवमयाः कवयो भवन्तु ॥ १४ ॥

(इति निष्कान्ताः सर्वे )

तृतीयोऽङ्क्ः


इति महकविवत्सराजविरचितः समुद्रमयनाभिधानः समवकारः समाप्तः