पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
कर्पूरचरितभाणः


 अथवा । अलं मे खलालापसमाधाननिर्वन्धेन । तदहमिदानीमजितार्थतीर्थप्रतिपादनाय दुरोदरशालामेव व्रजामि ।

यतः-
 घूतक्रीडाविहीनस्य वेश्यासु विमुखस्य च ।
 विद्यमानमपि व्यक्त्तं धनं स्वप्नधनोपमम् ॥ ८ ॥

( आकाशे )

 वयस्य चन्दनक!तिष्ट तिष्ट । मामपि प्रतिपालय | क्रिमात्थ ? सत्तट्टवासराइं दुरोदरविरहिणो ण तुह मुहं पुलोईअदि[१] । ( सस्मितम्) अलं मे वित्तशन्यस्य दोपोद्भावनेन । वित्तशाठ्यं हि क्रमातिक्रमे गर्हितम् । किं व्रवोपि ? । वि[२]लासवदीदिन्नहिअअस्स ण र्किपि ते पडिहाअदि । (विहस्य ) विदितोऽस्मि वयस्येन । एवमेवैतत् ।

अहरहरभुता अप्यपूर्वापमाणा
 निरुपधिमधुरास्नाः सुभ्रुवः प्रेमलीलाः ।
कृननिविटसमाधिर्भावयन्नन्तरात्मा
 परिशिथिलितवृत्तिर्वर्त्ततेऽन्यक्रियासु ॥ ९ ॥

( इति स्थित एव पठति )

( आफाशे कर्णे दत्वा )

 एयं मे वयस्यो व्रवीति । सुट्टु खु मे कोऊहल्लताओप्पेम्मलीलाओ आअण्णिदुं, जाहिं सअलभुअणमोहप्णो तुमंपि मोहि[३]दो । ( सत्रीडस्मितम् ) कथयामि यदि न सुभगम्मन्यं मन्यते वयस्यः । एकदा मयेि केलिकलहान्तरिते सुगुप्तं सौधपृप्ठाचलग्ने अरतिभरनिरस्तनिद्रया तया गाथा पठिता | सेयमुत्कीर्णेव मनसि वर्त्तते ।

[४]ग्वइ ण तत्थ धुत्ते वावारो कोवि इअरदूईण ।
आणेसु सिविणए तं मा णिद्दे णिद्दया होहि ॥

( इयासीनस्तथा तथा अरतिं नाटयति )


  1. सप्ताष्टवासराणि दुरोदरविरहिणो न तम मुरयं प्रलोक्यते ।
  2. विलासनतीइदयस्य न किमपि ते प्रतिभाति ।
  3. मुघु खलु मे कुतृहृलं ताः प्रेमलीला आकर्णयितुं, याभिः सकलमुपनमोहनस्त्त्वमपि मोहितः ।
  4. अर्हति न तन धृर्ते व्यापारः कोऽपि इतरदूतीनाम् ।