पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
महामात्यवत्सराजविरचितरूपकसङ्ग्रहे
रुक्मिणीहरण ईहामृगः ।

दरमुकुलितनेत्रा स्मेरघफ्राम्युजक्ष्री-
 रुपगिरिपतिपुत्रि प्राप्तसान्द्रप्रमोदा ।
मनमिजमयभावैर्भावितध्यानमुद्रा
 वितरतु रुचिनं वः शााम्भवी दम्भभङ्गिः ॥ १ ॥

अपि च-----

 उपलशकलकल्पः कौस्तुभो यामिफो मे
  ट्टदि तय रमणीनां वार्यते केन यात्रा ।
 त्वमसि कुवलयाभस्तत्कटाक्षोपमर्द्दै-
  र्भणितिभिरिति लक्ष्म्याः पातु मूको मुरारिः ॥ २ ॥

( नान्द्यन्ते )

 सूत्रधारः-( सहर्पम्) दिष्टया मनोरथ इव द्रागुपगतः परितोपयति मामभिनयसमयः । अहं हि कालश्ञ्जरे चक्रस्वामियात्रासमागतविदग्धसामाजिकैरादिष्टोऽस्मि । यदद्य चन्द्रोदये देवस्य चक्रस्वामिनः पुरतो रुकिमणीहरणाद्वयः . कविवत्सराजविरचित ईहामृगोऽभिनेयः । ( सौत्सुक्यम्) किं पुनर्विश्रव्धायते मम परिजनः ? ।

 स्थापका-- (प्रविश्य ) भाव ! त्वर्यतां त्वर्यतां समतिक्रामत्यभिनयवेला । पश्येतु भावः ।

उदयगिरिकुरङ्गीरागपाशेन कृप्टः
 परिपततु कुरङ्गो मा ममायं विमूढः ।
दृति ट्टदि कृनशङ्गो नृनमेणाङ्क एप
 त्वरितपदमुपैति व्योमरङ्गस्य मध्यम् ॥ ३ ॥

 सूत्र०-( विहम्य ) अहो मे परिजनस्य निजदोपारोपणे परमूर्द्धनि नैपुणम् । भवन्त एव विश्रव्धा, भवन्त एव मां त्यरयन्ति ।

 स्थापकः-( विहम्य ) क्षाम्यतु क्षाम्यतु भावः । स तव प्रसादभृमिर्दुः-