एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। अस्याम्बुधेर्यातनिवृत्तमार्गे पुजैः स्थिता ये मणिशुक्तिशङ्खाः । तथा त एवार्य निवेशनेऽपि स्थिता इवान्तर्बहिरप्यमुष्याः ॥ २८ ॥ 'अस्येति ॥ हे आर्य, ये मणिशक्तिशङ्खाः अस्य अम्बुधेः, यातनिवृत्तमार्गे गतागतपथे, पुबै राशिभिः स्थिताः । तथा ते एव मणिशुक्तिशाः, निवेशनेऽपि राशिरचनायामपि स्थिताः । तथा च अमुच्या नगर्या अन्तर्मध्ये बहित्यिप्रदेशेऽपि ते स्थिता इव भा. सन्ते ॥ उपजातिः ॥ यस्याः समीपेऽम्युनिधिनिषण्णो रत्नैः स्फुटं भोजनभाजनानि । स्त्रियश्च देवाप्सरसां सदृश्यः किं वर्ण्यतेऽस्या विभवो नगर्याः ॥२९॥ यस्या इति ॥ यनिकटे समुद्रस्थितिः यस्यां भोजनभाजनानि रत्नमयानि, स्त्रियश्वा- प्सरोभिस्तुल्याः । तथा चास्या नगर्या विभवो विभूतिः किं वर्ण्यते ॥ अत्र समेता मृदुरसमेता भृकुटिलास्याः स्मरकुटिलास्याः । भूप रमन्ते ह्यनुपरमं ते वेगमनेन व्यभिगमनेन ॥ ३०॥ अत्रेति ॥ हे भूप, अत्र देशे समेता मिलिताः, भ्रूकुटिलास्या भ्रूभाभङ्गुराननाः, स्म- रकुटिलासा स्मरस कंदर्पस्य कुटिह लास्यं नृत्यं यास ताः, एताः (कामिन्यः) ते तव अनेन व्यभिगमनेन संमुखागमनेन मृदुरसं मधुररसम् अनुपरममनवरतम् वेगं शीघ्रं यथा स्यात्तथा रमन्ते क्रीडन्ते ॥ अनुकूलावृत्तम् ॥ कामिपरीता मधुविपरीता भूमिप कान्ता स्फुरदलकान्ता । काप्यनुगेयं लयमनुगेयं गायति मत्ता कृतरतिमत्ता ॥ ३१ ॥ कामीति ॥ हे भूमिप, कामिपरीता कामुकावेष्टिता मधुविपरीता मधेन विपरीता सदाचारभ्रष्टा मधुगन्धेन विभिभ्रमरैाप्ता वा स्फुरदलकान्ता दीप्यमानकेशाप्रा मत्ता क्षीया कृतरतिमत्ता विहितसंभोगवत्ता कापि इयं कान्ता अनुगेयं गेयस्य पश्चात् लयं द्रुतमध्यविलम्बितम् अनुगा अनुगच्छन्ती सती गायति ॥ वादयितारं प्रियदयितारं वा खरा गाहितमुखरागा। तं बहुधा तु क्रमबहुधातु क्ष्माधिप हित्वाभिपतति हि स्वा ॥ ३२ ॥ _ वादेति ॥ हे क्ष्माधिप, अरमत्यर्थम् वाङ्मखरा वचनवाचाला, गाहितमुखरागा गा. हितो व्यालोडितो मुखे रागस्ताम्बूलादिजनितो यया सा प्रियदयिता सस्नेहकामिनी क्रम• बहधातु कमेण परिपाट्या बहवो धातवो व्यञ्जनप्रभृतयो यस्मिन्वायकर्मणि तत् बहुधा वादयितारं तं तु हित्वा परित्यज्य हि निश्चयेन त्वा त्वाम् अभिपतति संमुखमायाति ॥ मङ्गलयुक्त्या मृदुगलयुक्त्या कोऽप्यनृशंसं परमनृशंसम् । लोक उदारः सहसुतदारस्त्वामभियातिस्थिरमभियाति ॥ ३३ ॥ Digitced o; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१००&oldid=234559" इत्यस्माद् प्रतिप्राप्तम्