एतत् पृष्ठम् अपरिष्कृतम् अस्ति

र सर्गः] द्विसंधानम् । ९१ मालेति ॥ मृदुगलः कलकण्ठः, उदारः औदार्यगुणोपेतः, सहसुतदारः सुतैर्दारैश्च सहितः कोऽपि लोकः अनृशंसमघातुकम्, परमनृशंस परमेषु उत्कृष्टेषु नृषु शंसा स्तु- तिर्यस्य ते (कर्मधारयेन विरोधः) अतिस्थिरं निःक्षोभप्रकृति त्वाम् अभिया निःशकतया मकलयुक्त्याः कल्याणघटनायाः, उक्त्या निर्वचनेन, अभियाति संमुखमायाति ॥ इत्यर्जुनोक्तां मनसा प्रसन्नः स्वसुः स्थिराभिः प्रतिमान्यवाग्भिः । राजा पुरं प्रापदरातिचारविद्रावणो धर्मकृतोद्भवस्ताम् ॥ ३४ ॥ इत्येति ॥ अर्जुना आ समन्तादृजुना मनसा प्रसन्नः अरातिचारविद् शत्रुचेष्टोपाय- झाता धर्मकृतोद्भवः पुण्यविनाशायोत्पन्नः, रावणो राजा इति एवमुक्ताभिः स्थिराभिः वि- चारसहाभिः, स्वसुर्भगिन्याः शूर्पणखायाः प्रतिमान्यवाग्भिः प्रशस्यवचनैः, उक्तां तां पुरं लङ्क प्रापत् ॥ भारतीये-मनसा प्रसनः, स्वसुः शोभनप्राणः, अरातिचारविद्रावणो वैरिचेष्टोपायविनाशकः, धर्मावतारो युधिष्ठिरः प्रतिमान्यवाग्भिः अर्जुनोक्ताम् अर्जुनेनो- क्तामुपदिष्टाम् ॥ श्लेषः ॥ उपजातिः ॥ मनोभिरामप्रमदां विशन्ती क्षणं निशायोपवने सुदृष्टिम् । उत्कण्ठभावं गमितोनतात्मा प्रचक्रमेऽभ्यन्तरमेव गन्तुम् ॥ ३५ ॥ मनोभिरामेति ॥ अनतात्मा अजितेन्द्रियः (रावणः) उत्कण्ठभावमौत्सुक्यं गमितः प्रापितः सन् सुदृष्टिं चक्षुरिन्द्रियं मनः अभिलक्षीकृत्य क्षणं विशन्तीम् पहिरव्यापारित- नेत्राम् रामप्रमदाम् सीताम् उपवने निशाय संनिवेश्य अभ्यन्तरं नगरमध्यम् एव गन्तुं प्रचक्रमे ॥ भारतीये-नतात्मा जितेन्द्रियः सविनयमूर्तिर्वा, उत्कण्ठभावमूर्ध्वग्रीवत्वम् , अभिरामप्रमदामभिरामस्य अर्जुनस्य प्रमर्दा द्रौपदी मनोझसुन्दरी वा, यद्वा मनः सुदृष्टिं च उपवन विशन्तीम् (प्रकरणादध्याहारः)॥ विदेहसंकल्पजसंभवायाः प्रीतेस्तदालोकसमुत्सुकाभिः । द्रागित्यभीये पुरसुन्दरीभिः सरोदसीतापहृतौ कृतार्थः ॥ ३६॥ विदेहेति ॥ विदेहसंकल्पजसंभवाया जनकपुत्रीसंवन्धिन्याः प्रीतेहेतोः तदालोकस- मुत्सुकाभिर्जनकात्मजादर्शनोत्कण्ठिताभिः पुरसुन्दरीभिर्लङ्काकामिनीभिः सरोदसीताप- हृतौ रुदजानकीहरणे, कृतार्थः कृतकृत्यः (रावणः) द्राकू शीघ्रम् अभीये अभिगतः ॥ भारतीये-विदेहसंकल्पजसंभवायाः विदेहादनात् संकल्पजात् 'जाने संकल्पतो मलं काम कामस्य जायते । तन्नाशादपि तन्नाशः कथ्यते मुनिपुंगवैः ॥' इत्युक्तेर्मानसविकार- जातात् संभव उत्पत्तिर्यस्यास्तस्याः तदालोकः युधिष्ठिरावलोकनम् रोदसीतापहृतौ द्या- वाभूमिसंतापहरणे ॥श्लेषः ॥ ___ श्लथं द्विरेफाकुलपुष्पभारं रुद्धा वजन्ती चिहुरं करेण । पुडानुपुङ्ख मदनेन मुक्तानुत्पाटयन्तीव शरान्पराभूत् ॥ ३७ ॥ Digitzed by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१०१&oldid=234560" इत्यस्माद् प्रतिप्राप्तम्