एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। .. नथमिति । परा कामिनी द्विरेफाकुलपुष्पभारं भ्रमरैर्व्याप्तः पुष्पभारो या तं लथं शिथिलं बिहुरं केशजालम् करेण रूद्धा व्रजन्ती मदनेन मुक्तान् शरान् पुखानुपुझं पि- अनुपिच्छं यथा भवेतथा उत्पाटयन्ती इव भवेत् ॥ अन्यात्मदर्श मुखमीक्षमाणा तथैव हस्तेन तमुद्वहन्ती। कि मे मुखं रम्यमुतेन्दुरेवं तं स्पर्धया दर्शयितुं गतेव ॥ ३८॥. अन्येति ॥ तथैव अन्या कामिनी कि मे मुखं रम्यम् उत इन्दुः, एवं स्पर्धया मुखम् आत्मदर्श मुकुरुन्दे दर्पणे ईक्षमाणा इस्तेन तमात्मदर्शम् उद्वहन्ती सती सं राजानं दर्श- यितुं साक्षीकर्तुम् इव गता प्राप्ता ॥ महानिवेशं कुचभारमेका धृत्वा कराभ्यां त्वरितं जिहाना । उपर्युपर्युच्छुसिता नताशी शून्यं तरन्तीव घटद्वयेन ॥ ३९ ॥ महानिदेशमिति ॥ एका नताशी कामिनी, महानिवेशं धनपीनोन्नतस्थितिमन्तम्, ' कुचभारं कराभ्यां धृत्वा त्वरित जिहाना गच्छन्ती सती घटद्वयेन शून्यमाकाशं तरन्ती इव उपर्युपरि उच्छसिता॥ विधूय लीलाम्बुजमुत्पलाशं निघ्नन्नलिं कर्णगमुत्पलाशम् । भ्रेजेऽङ्गनौधः सुरयो निजेन हावेन गच्छन्सुरयोनिजेन ॥ ४०॥ विधयेति ॥ सुरयोऽतिवेगवान् , अङ्गनीषः कामिनीसमुदायः, गच्छन्, उत्पलाशमुद्र- तदलं व्याकोशम् , लीलाम्बुजं क्रीवाकमलम् , विधूय कम्पयित्वा कर्णगं श्रवणे गच्छन्तम्, उत्पलाचं कमलस्पृहम् , अलि निनन यारयंश्च सन्, निजेन आत्मीयेन सुरयोनिजेन अ- मरसंभवेन हावेन भेजे ॥ दष्टाधरं तिष्ठतु संप्रहारः कस्याश्चिदास्तां कटकोपवेशः। सर्वान्यजन्त्यास्त्वरितं भुजस्य विक्षेपमानं विवशीचकार ॥ ४१॥ दष्टेति ॥ संप्रहारः परस्परताडनं दष्टाधरं यथा भवेत्तथा तिष्ठतु, कटकोपवेशोऽव्यक्तक- कणरवः आस्ताम् , त्वरित वजन्त्याः कस्याश्चिद् भुजस्य विक्षेपमात्रमन्दोलनमा सर्वान् विवशीचकार ॥ इन्द्रवनासम् ।। अंसान्तविश्रान्तकुचान्तचक्रमाश्लिष्य कान्तेन तमर्षपीतम् । बिम्बौष्ठमाक्षिप्य निमीलिताक्षं सीत्कारपूर्व कुलटाभ्यधावत् ।। ४२॥ अंसान्तेति ॥ कान्तेन प्रियेण असान्तविश्रान्तकुचान्तचक्रं स्कन्धमध्योपविष्टस्तनचू- चुकं यथा स्यात्तथा आश्लिष्य आलिङ्गप निमीलिताक्षं यथा स्यात्तथा अर्धपीतं तं बिम्बोर्छ सीत्कारपूर्व यथा स्यात्तथा आक्षिप्य आकृष्य (प्रियमुखान्मोचयित्वा) कुलटा अभ्यधावत्॥ आकृष्य हस्सं विधृतं वरित्रा काचिन्नवोढा सहसाभ्ययासीत् । प्रियानुबद्धं पटमालिखन्ती हिवागमनोषितभर्तृकान्या ॥ ४३ ॥ Dosticede, Google Digitized by

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१०२&oldid=234561" इत्यस्माद् प्रतिप्राप्तम्