एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। स धृतेति ॥ धृतव्यजनेन धृततालवृन्तेन, परमालमङ्गलघोषकता परमुस्कृष्टं मालं दू- क्षितादिमालद्रव्यसंनिधान मङ्गलघोषं गीतसूक्तपाठादि च कुर्वता, नगरी पुरम् अभि- रायता अभि सामस्त्येन रअयता सुधागैरिकादिभिर्लेपयता, जनेन 'जयतात्' इति वाक्य. विभागं गमितः प्रापितः स रावणो युधिष्ठिरश्च पुरं लड़ द्वारकांच इतः प्रविष्टः ।।तो. टककृतम् ।। खगोचरं जल्पमधिस्त्रि शृण्वन्संमान्यलकारमणीन्निरूप्य । हर्म्यस्थकन्योज्झितपुष्पलाजं स राजमार्ग नृपतिः प्रपेदे ॥ ४९ ॥ स्वगोचरमिति ॥ स नृपती रावणः संमान्यलङ्कारमणी संमाननीयलङ्कानगरीमेव रमणी प्रियां निरूप्यावलोक्य अधिनि स्त्रीमध्ये स्वगोचरं स्वविषयकं जल्पं वृत्तान्तं शुण्वन् सन् हर्म्यस्थकन्योज्झितपुष्पलाजम् प्रासादस्थितकुमारीप्रक्षिप्तानि पुष्पाणि लाजा भृथ्वीहयो यत्र तं राजमार्ग प्रपेदे प्राप । भारतीये-संमान्यलंकारमणीन् सैमानिनः सम्यक् मां लक्ष्मीमनन्ति प्राणन्ति पुष्टिं नयन्ति तथाभूतान् अलंकारभूतान् मणीन् निरूप्य नृप- तियुधिष्ठिरः ॥ श्लेषः । उपजातिः ॥ आद्री बालाश्चिक्षिपुस्तस्य शेषामुच्चैरूढा येन सा धूर्वरायाः । आलोकान्तं कीर्तिलक्ष्मीप्रतापैरुच्चै रूढायेन साधूर्वरायाः ॥ ५० ॥ __ आदमिति ॥ रूढा येन रूढो जगत्ख्यातः अयः शुभावहो विधिर्यस्य तेन, येन नृपेण वरायाः शोभनायाः, उर्वरायाः सर्वशस्याझ्यभूमेः, सा, उच्चैर्महती, धूः, आलोकान्तं लो- कत्रयं यावत्, कीर्ति लक्ष्मीप्रतापैः साधु लोकप्रशंसाविषयत्वान्मनोहार यथा स्यात्तथा उ- धैर्वाढम् उढा । तस्य राज्ञस्तदुपरि बाला मुग्धा आर्द्रा शेषां देवनिर्माल्यं चि. क्षिपुः ॥ शालिनी ॥ विभीषणाम्युन्नतकुम्भकर्णमुख्यैर्महानागबलैयुतेन । पराक्रमेणेन्द्रजितोद्धतेन प्रत्यभ्युदीये हरिणेक्षणेन ॥११॥ विभीषणेति ॥ विभीषणाभ्युम्नतकुम्भकर्णमुख्यैः, महानागवलैमहानागतुल्यबलः, युतेन युक्तेन, पराक्रमेण शत्र्याक्रमणका, उद्धतेन गर्वपर्वताधिरूढेन, हरिणेक्षणेन मृग- चक्षुषा, इन्द्रजिता प्रत्यभ्युदीये प्रत्यभ्युत्थितम् ॥ भारतीये--विभीषणानि अभ्युनता- स्तुकाः कुम्भाः कर्णाः मुखानि येषां तानि तैविभीषणाभ्युग्नतकुम्भकर्णमुख्यैः (बहुव्रीयुत्तरं शाखादित्वात्स्वार्थे यः) महानागवलैगजेन्द्रसैन्यैर्युतेन, पराक्रमेण प्रतापत इन्द्रजिता, उद्धतेन हरिणा नारायणेन ईक्षणेन अवलोकनेन प्रत्यभ्युदीये ॥ श्लेषः ॥ उपजातिः ॥ अत्र स्तुताधिकमनोजवधूतमालपत्रप्रयुक्तकुसुमाञ्जलिसिक्तमूर्तिः । अत्रस्नुताधिकमनोजवधूतमालमाल्येन तेन सहितः खगृहं विवेश ॥५२॥ अत्रेति ॥ अत्र अवसरे स्तुताधिकमनोजवधूतमालपत्रप्रयुक्तकसुमाअलिसिक्तमूर्तिः Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१०४&oldid=234563" इत्यस्माद् प्रतिप्राप्तम्